SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ रजक के देशेति । देशे = नाभिचक्र-नासाग्रादौ बन्धो = विषयान्तरपरिहारेण स्थिरीकरणात्मा (=देशबन्धो) हि चित्तस्य धारणा। यदाह- "देशबन्धश्चित्तस्य धारणा"(योगसूत्र ३-१)। ___ तत्र = धारणायां सुस्थितः मैत्र्यादिचित्तपरिकर्मवासिताऽन्तःकरणतया, स्वभ्यस्तयमनियमतया, 'जिताऽऽसनत्वेन परिहृतप्राणविक्षेपतया, प्रत्याहृतेन्द्रियग्रामत्वेन ऋजुकायतया, जितद्वन्द्वतया, सम्प्रज्ञाताऽभ्यासाऽऽविष्टतया च सम्यग्व्यवस्थितः। भूतानां = जगल्लोकानां प्रियो भवति । तथा धर्फकाग्रमना भवति ।।९।। अस्यामाक्षेपकज्ञानान्न भोगा भवहेतवः । श्रुतधर्मे मनोयोगाच्चेष्टाशुद्धेर्यथोदितम् ॥१०॥ ___ अस्यामिति । अस्यां कान्तायां 'कायचेष्टाया अन्यपरत्वेऽपि श्रुतधर्मे = आगमे मनोयोगात् = नित्यं मनःसम्बन्धात् आक्षेपकज्ञानाद् = नित्यप्रतिबन्धरूपचित्ताऽऽक्षेपकारिज्ञानात् न भोगा इन्द्रियार्थसम्बन्धा भवहेतवो भवन्ति, चेष्टायाः = प्रवृत्तेः शुद्धेः (=चेष्टाशुद्धेः), मनोर्मल्यात् । यथोदितं हरिभद्रसूरिभिर्योगदृष्टिसमुच्चये ।।१०।। मायाऽम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः ॥११॥ मायाम्भ इति । मायाऽम्भः तत्त्वतो = मायाम्भस्त्वेनैव पश्यन् अनुद्विग्नः ततो १. हस्तादर्श 'जितासत्वेन' इत्यशुद्धः पाठः । २. हस्ताद” 'कायाचे...' इति पाठः । २४/११ ||४१९।। Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy