________________
“अलौल्यमारोग्यमनिष्ठुरत्वं, गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च, योगप्रवृत्तेः प्रथमं हि चिह्नम् ।।१।। (शार्गधरपद्धति-१९०/१) मैत्र्यादियुक्तं विषयेषु चेतः, प्रभाववद्धैर्यसमन्वितं च । द्वन्द्वैरधृष्यत्वमभीष्टलाभो, जनप्रियत्वं च तथा परं स्यात् ।।२।। दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भराधीनिष्पन्नयोगस्य तु चिह्नमेतत् ।।३।।(योगदृष्टिसमु.श्लो.१११ वृत्ति उद्धृत, योगबिन्दुवृत्ति-५५ उद्धृत” इति । इहाऽप्येतदकृत्रिमं गुणजातमित एवाऽऽरभ्य विज्ञेयम् ।।७।।
धारणा प्रीतयेऽन्येषां कान्तायां नित्यदर्शनम् ।
नाऽन्यमुत् स्थिरभावेन मीमांसा च हितोदया ।।८।। धारणेति । कान्तायां उक्तरीत्या नित्यदर्शनम् । तथा धारणा वक्ष्यमाणलक्षणा अन्येषां प्रीतये भवति । तथा स्थिरभावेन नाऽन्यमुत् = नाऽन्यत्र हर्षः, तदा तत्प्रतिभासाऽभावात् । हितोदया = सम्यग्ज्ञानफला मीमांसा च सद्विचारात्मिका भवति ।।८।।
'देशबन्धो हि चित्तस्य धारणा तत्र सुस्थितः ।
प्रियो भवति भूतानां धर्मेकाग्रमनास्तथा ॥९॥ । १. हस्ताद” 'देशेबंधा' इत्यशुद्धः पाठः ।
२४/९
।। ४१८।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org