________________
। दाहस्वभावाऽपरावृत्तेः । प्राय एतदेवं, न दहत्यपि कश्चित्सत्यमन्त्राभिसंस्कृताद्दाहाऽसिद्धेः
सकल-लोकसिद्धत्वादिति वदन्ति' । युक्तं चैतन्निश्चयतो येनांशेन ज्ञानादिकं तेनांशेनाऽबन्धनमेव, येन च प्रमादादिकं तेन बन्धनमेव । . सम्यक्त्वादीनां तीर्थकरनामकर्मादिबन्धकत्वस्याऽपि तदविनाभूतयोग-कषायगतस्योपचारेणैव सम्भवात् । 'इन्द्रियाऽर्थसम्बन्धादिकं तूदासीनमेवेत्यन्यत्र विस्तरः ।।६।।
स्कन्धात्स्कन्धान्तराऽऽरोपे भारस्येव न तात्त्विकी ।
इच्छाया विरतिभॊगात्तत्संस्काराऽनतिक्रमात् ।।७।। स्कन्धादिति । स्कन्धात् स्कन्धान्तराऽऽरोपे 'भारस्येव भोगात् इच्छाया विरतिर्न तात्त्विकी। तत्संस्कारस्य = कर्मबन्धजनिताऽनिष्टभोगसंस्कारस्याऽनतिक्रमात् (=तत्संस्काराऽनतिक्रमात्) । ____तदतिक्रमो हि प्रतिपक्षभावनया तत्तनूकरणेन स्यात् । न तु विच्छेदेन प्रसुप्ततामात्रेण वेति । इत्थं भोगाऽसारताविभावनेन स्थिरायां स्थैर्यमुपजायते । सत्यामस्यामपरैरपि योगाचारलौल्यादयो गुणाः प्रोच्यन्ते । यथोक्तं१. प्राचीनमुद्रितप्रती 'वदति' इत्यशुद्धः पाठः । २. हस्तादर्श 'चैतवः' इत्यशुद्धः पाठः । ३. हस्तादर्श 'इन्द्रियन्त्र विस्तर' इति त्रुटितः पाठः । ४. हस्तादर्श'....वेदित्यन्यत्र' इत्यशुद्धः पाठः । ५. हस्तादर्श 'भाव' इति त्रुटितोऽशुद्धश्च
४१७।।
पाठः ।
Jain Education International
For Private & Personal use only
www.jainelibrary.org