________________
।। परिदृश्यमानरूपस्याऽभावात् ।।४ ।।
भवभोगिफणाऽऽभोगो भोगोऽस्यामवभासते ।
'फलं ह्यनात्मधर्मत्वात्तुल्यं यत्पुण्य-पापयोः।।५।। भवेति । अस्यां = स्थिरायां । भोगः = इन्द्रियार्थसुखसम्बन्धः। भवभोगिफणाभोगः = संसारसर्पफणाटोपः अवभासते, बहुदुःखहेतुत्वात् । नाऽनुपहत्य भूतानि भोगः सम्भवति, ततश्च पापं, ततो दारुणदुःखपरम्परेति । ____ 'धर्मप्रभवत्वाद् भोगो न दुःखदो भविष्यती'त्यत्राह- यद् = यस्मात् पुण्य-पापयोः द्वयोः हि फलं अनात्मधर्मत्वात् तुल्यम् । व्यवहारतः सुशीलत्व-कुशीलत्वाभ्यां द्वयोर्विभेदेऽपि निश्चयतः संसारप्रवेशकत्वेन कुशीलत्वाऽविशेषात् ।।५।।
धर्मादपि भवन भोगः प्रायोऽनर्थाय देहिनाम् ।
चन्दनादपि सम्भूतो दहत्येव हुताऽशनः ॥६॥ धर्मादिति । धर्मादपि भवन् भोगो देवलोकादौ प्रायो = बाहुल्येन अनर्थाय देहिनां, तथाप्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माऽऽक्षेपिभोगनिरासार्थ, तस्य प्रमादबीजत्वाऽयोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्य(पुष्ष)शुद्ध्यादावागमाऽभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति। सामान्यतो दृष्टान्तमाह- चन्दनादपि तथाशीतप्रकृतेः सम्भूतो दहत्येव हुताशनः, दहनस्य १. हस्तादर्श 'फले' इत्यशुद्धः पाठः ।
२४/६
।। ४१६॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org