________________
उक्तं- “स्वविषयाऽसंप्रयोगे चित्तस्वरूपाऽनुकार इवेन्द्रियाणां प्रत्याहारः” इति (योगसूत्र
२-५४) । कीदृशोऽयमित्याह- एतदायत्तताफलः = इन्द्रियवशीकरणैकफलः । अभ्यस्यमाने | हि प्रत्याहारे तथाऽऽयत्तानीन्द्रियाणि भवन्ति यथा बाह्यविषयाऽभिमुखतां नीयमानान्यपि | न यान्तीति । तदुक्तं- “ततः परमा वश्यतेन्द्रियाणामिति” (योगसूत्र २-५५) ।।२।।
अतो ग्रन्थिविभेदेन विवेकोपेतचेतसाम् ।
त्रपायै भवचेष्टा स्याद् बालक्रीडोपमाऽखिला ॥३॥ अत इति । अतः = प्रत्याहारात् ग्रन्थिविभेदेन विवेकोपेतचेतसां भवचेष्टाऽखिला चक्रवादिसुखरूपाऽपि बालक्रीडोपमा' = बालधुलीगृहक्रीडातुल्या, प्रकृत्यसुन्दरत्वाऽस्थिरत्वाभ्यां त्रपायै स्यात् ।।३।।
तत्त्वमत्र परञ्ज्योतिर्जस्वभावकमूर्तिकम् ।।
विकल्पतल्पमारूढः शेषः पुनरुपप्लवः ॥४॥ तत्त्वमिति । अत्र = स्थिरायां ज्ञस्वभाव एका मूर्तिर्यस्य तत्तथा (=ज्ञस्वभावकमूर्तिकम्), ज्ञानादिगुणभेदस्याऽपि व्यावहारिकत्वात् । परंज्योतिः आत्मरूपं तत्त्वं परमार्थसत् । शेषः पुनः भवप्रपञ्चो विकल्पलक्षणं तल्पमारूढ (=विकल्पतल्पमारूढः) उपप्लवो भ्रमविषयः, १. हस्तादर्श 'विषया...' इति त्रुटितः पाठः । २. हस्तादर्श 'बाह्यनीयमा...' इत्यशुद्धः त्रुटितः पाठः । ३. हस्तादर्श 'बालक्रीडोपमा' इति पदं द्विरुक्तम् ।
२४/४
।।।४१५।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org