________________
॥ अथ सदृष्टिद्वात्रिंशिका ॥२४ ।। अनन्तरमवेद्यसंवेद्यपदजयात् कुतर्कनिवृत्तिर्भवति, सैव च विधेयेत्युक्तं, अथ तत्फलीभूताः सदृष्टीविवेचयन्नाह
प्रत्याहारः स्थिरायां स्याद्दर्शन' नित्यमभ्रमम् ।
तथा निरतिचारायां सूक्ष्मबोधसमन्वितम् ॥१॥ प्रत्याहार इति । स्थिरायां दृष्टौ प्रत्याहारः स्यात् वक्ष्यमाणलक्षणः । तथा निरतिचारायां दर्शनं नित्यं अप्रतिपाति । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुत्कोपाद्यनवबोधकल्पमपि भवति, तथाऽतिचारभावात्, रत्नप्रभायामिव धूल्यादरुपद्रवः । अभ्रमं = भ्रमरहितम् । तथा सूक्ष्मबोधेन समन्वितम् (=सूक्ष्मबोधसमन्वितम्) ।।१।।
विषयाऽसम्प्रयोगेऽन्तःस्वरूपाऽनुकृतिः किल ।
प्रत्याहारो हृषीकाणामेतदायत्तताफलः ।।२।। विषयेति । विषयाणां = चक्षुरादिग्राह्याणां रूपादीनां असंप्रयोगे = तद्ग्रहणाऽऽभिमुख्यत्यागेन स्वरूपमात्राऽवस्थाने सति (=विषयासम्प्रयोगे) अन्तःस्वरूपाऽनुकृतिः = चित्तनिरोधनिरोध्यतासम्पत्तिः किल हृषीकाणां चक्षुरादीनामिन्द्रियाणां प्रत्याहारः । यत
||४१४।।
१. हस्तादर्श ...दर्शनां नित्यविभ्रमां' इत्यशुद्धः पाठः । २. हस्तादर्श 'तदुक्ताऽपायाद्य....' इति पाठः ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org