SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ 42 4 AH ज्ञायेरन्निति । हेतुवादेन = अनुमानवादेन यदि अतीन्द्रिया धर्मादयः पदार्थाः ज्ञायेरन् । तदा एतावता• कालेन प्राज्ञैः = तार्किकैः तेषु अतीन्द्रियेषु पदार्थेषु निश्चयः कृतः स्यात्, उत्तरोत्तरतर्कोपचयात् ।।३१।। तत्कुतर्कग्रहस्त्याज्यो ददता दृष्टिमागमे । प्रायो धर्मा अपि त्याज्याः परमानन्दसम्पदि ।।३२।। तदिति । तत् तस्मात् कुतर्कग्रहः = शुष्कतर्काऽभिनिवेशः त्याज्यो दृष्टिमागमे ददता। परमा-नन्दसम्पदि = मोक्षसुखसम्पत्तौ प्रायो धर्मा अपि क्षायोपशमिकाः क्षान्त्यादयः कतर्कग्रहः सतरां त्याज्य एव । क्वचिदपि ग्रहस्यासमानुष्ठानप्रतिपान्थत्वेनाऽश्रेयस्त्वादिति भावः। क्षायिकव्यवच्छेदार्थं प्रायोग्रहणं । __ तदिदमुक्तं- “न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याऽभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ।। ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । मुक्ती धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत ।।" (योगदृष्टिसमुच्चय १४७-१४८) इति ।।३२।। ।।१३।। ।। इति कुतर्कग्रहनिवृत्तिद्वात्रिंशिका ।।२३।। 9. का २३/३२ १. हस्तादर्श '...मिकः' इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy