SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ त र्क ग्र ह नि त्ति द्वा त्रिं शि का २३/३१ Jain Education International निशानाथप्रतिक्षेपो यथाऽन्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवाऽर्वाग्दृशामयम् ।। न' युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्याऽपवादस्तु पुनर्जिह्वाच्छेदाऽधिको मतः । । * कुदृष्टादि' च नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किं तु सत्त्वार्थकृत्सदा । । ” • ← ( योगदृष्टिसमुच्चय १३८ - १४२ ) ।। २९ ।। •तस्मात्सर्वज्ञवचनमनुसृत्यैव प्रवर्तनीयं न तु तद्विप्रतिपत्त्याऽनुमानाद्यास्थया स्थेयं, तदननुसा-रिणस्तस्याऽव्यवस्थितत्वादित्यत्र भर्तृहरिवचनमनुवदन्नाह— यत्नेनाऽनुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।।३०।। यत्नेनेति । यत्नेन = 'असिद्धत्वादिदोषनिरासप्रयासेन = अनुमितोऽप्यर्थः कुशलैः व्या-प्तिग्रहादिदक्षैः अनुमातृभिः अभियुक्ततरैः = अधिकव्याप्त्यादिगुणदोषव्युत्पत्तिकैः अन्यैः अन्यथैव असिद्धत्वादिनैव उपपाद्यते ||३०|| • अभ्युच्चयमाह = = ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ३१ ॥ - ... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । १. हस्तादर्शे 'नियु... ' इत्यशुद्धः पाठः । २. योगदृष्टिसमुच्चयप्रतौ 'कृदृष्ट्यादिवन्नो' इति पाठ इत्यवधेयम् । स चाशुद्धः प्रतिभाति । ३ मुद्रितप्रतौ बहुषु हस्तादर्शेषु च ... न्य एवोपपद्यत इत्यशुद्धः पाठः । ४. हस्ता दर्शविशेषे च 'उपपाद्यते' इति पाठो वर्तते। ५. हस्तादर्शे 'असिद्ध्यादि' इति पाठान्तरम् । ६ मुद्रितप्रतौ 'उपपद्यते' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।४१२ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy