SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ त र्क ग्र ह नि त्ति द्वा त्रिं शि का २३/३१ Jain Education International निशानाथप्रतिक्षेपो यथाऽन्धानामसङ्गतः । तद्भेदपरिकल्पश्च तथैवाऽर्वाग्दृशामयम् ।। न' युज्यते प्रतिक्षेपः सामान्यस्यापि तत्सताम् । आर्याऽपवादस्तु पुनर्जिह्वाच्छेदाऽधिको मतः । । * कुदृष्टादि' च नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारवच्चैव किं तु सत्त्वार्थकृत्सदा । । ” • ← ( योगदृष्टिसमुच्चय १३८ - १४२ ) ।। २९ ।। •तस्मात्सर्वज्ञवचनमनुसृत्यैव प्रवर्तनीयं न तु तद्विप्रतिपत्त्याऽनुमानाद्यास्थया स्थेयं, तदननुसा-रिणस्तस्याऽव्यवस्थितत्वादित्यत्र भर्तृहरिवचनमनुवदन्नाह— यत्नेनाऽनुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।।३०।। यत्नेनेति । यत्नेन = 'असिद्धत्वादिदोषनिरासप्रयासेन = अनुमितोऽप्यर्थः कुशलैः व्या-प्तिग्रहादिदक्षैः अनुमातृभिः अभियुक्ततरैः = अधिकव्याप्त्यादिगुणदोषव्युत्पत्तिकैः अन्यैः अन्यथैव असिद्धत्वादिनैव उपपाद्यते ||३०|| • अभ्युच्चयमाह = = ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥ ३१ ॥ - ... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्शे नास्ति । १. हस्तादर्शे 'नियु... ' इत्यशुद्धः पाठः । २. योगदृष्टिसमुच्चयप्रतौ 'कृदृष्ट्यादिवन्नो' इति पाठ इत्यवधेयम् । स चाशुद्धः प्रतिभाति । ३ मुद्रितप्रतौ बहुषु हस्तादर्शेषु च ... न्य एवोपपद्यत इत्यशुद्धः पाठः । ४. हस्ता दर्शविशेषे च 'उपपाद्यते' इति पाठो वर्तते। ५. हस्तादर्शे 'असिद्ध्यादि' इति पाठान्तरम् । ६ मुद्रितप्रतौ 'उपपद्यते' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।४१२ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy