SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ त र्क ग्र he too has to ह नि वृ त्ति द्वा शि का २३/२९ Jain Education International 'सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ।। " ( योगदृष्टिसमुच्चय १३५) एकस्या वा तीर्थकरदेशनाया अचिन्त्यपुण्यसामर्थ्याद् = अनिर्वचनीयपरबोधाऽऽश्रयोपात्तकर्मविपाकाद् विभेदतः श्रोतृभेदेन विचित्रतया परिणमनाद्यथाभव्यमुपक्रिया भवतीति न शनावैचित्र्यात्सर्वज्ञवैचित्र्यसिद्धिः । यदाह = “एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते ।। यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता ।। " ← ( योगदृष्टिसमुच्चय १३६-१३७) ।।२८।। प्रकारान्तरमाह चित्रा वा देशना तत्तन्नयैः कालादियोगतः । यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः ।। २९॥ चित्रेति । वा = अथवा तत्तन्नयैः = द्रव्याऽऽस्तिकादिभिः कालादियोगतो = दुःषमादियोगमाश्रित्य यन्मूला = यद्वचनाऽनुसारिणी चित्रा = नानारूपा देशना कपिलादीनामृषीणां, तस्य सर्वज्ञस्य प्रतिक्षेपः (= तत्प्रतिक्षेपः) भावं = तत्तद्देशनानयाऽभिप्रायं अजानतोऽयुक्तः, आर्या-पवादस्याऽनाभोगजस्याऽपि महापापनिबन्धनत्वात् । तदुक्तं → “यद्वा तत्तन्नयाऽपेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः । । तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ।। १. मुद्रितप्रतौ 'साधु बन्धो' इत्यशुद्धः पाठः । २ हस्तादर्शे 'दुःखमा...' इति पाठः । For Private & Personal Use Only ।।।४११ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy