________________
त
र्क
ग्र
he too has to
ह
नि
वृ त्ति
द्वा
शि
का
२३/२९
Jain Education International
'सानुबन्धो भवत्येते तथा तस्य जगुस्ततः ।। " ( योगदृष्टिसमुच्चय १३५) एकस्या वा तीर्थकरदेशनाया अचिन्त्यपुण्यसामर्थ्याद् = अनिर्वचनीयपरबोधाऽऽश्रयोपात्तकर्मविपाकाद् विभेदतः श्रोतृभेदेन विचित्रतया परिणमनाद्यथाभव्यमुपक्रिया भवतीति न शनावैचित्र्यात्सर्वज्ञवैचित्र्यसिद्धिः । यदाह
=
“एकापि देशनैतेषां यद्वा श्रोतृविभेदतः । अचिन्त्यपुण्यसामर्थ्यात्तथा चित्राऽवभासते ।। यथाभव्यं च सर्वेषामुपकारोऽपि तत्कृतः । जायतेऽवन्ध्यताप्येवमस्याः सर्वत्र सुस्थिता ।। " ← ( योगदृष्टिसमुच्चय १३६-१३७) ।।२८।। प्रकारान्तरमाह
चित्रा वा देशना तत्तन्नयैः कालादियोगतः ।
यन्मूला तत्प्रतिक्षेपोऽयुक्तो भावमजानतः ।। २९॥
चित्रेति । वा = अथवा तत्तन्नयैः = द्रव्याऽऽस्तिकादिभिः कालादियोगतो = दुःषमादियोगमाश्रित्य यन्मूला = यद्वचनाऽनुसारिणी चित्रा = नानारूपा देशना कपिलादीनामृषीणां, तस्य सर्वज्ञस्य प्रतिक्षेपः (= तत्प्रतिक्षेपः) भावं = तत्तद्देशनानयाऽभिप्रायं अजानतोऽयुक्तः, आर्या-पवादस्याऽनाभोगजस्याऽपि महापापनिबन्धनत्वात् । तदुक्तं →
“यद्वा तत्तन्नयाऽपेक्षा तत्तत्कालादियोगतः । ऋषिभ्यो देशना चित्रा तन्मूलैषाऽपि तत्त्वतः । । तदभिप्रायमज्ञात्वा न ततोऽर्वाग्दृशां सताम् । युज्यते तत्प्रतिक्षेपो महानर्थकरः परः ।। १. मुद्रितप्रतौ 'साधु बन्धो' इत्यशुद्धः पाठः । २ हस्तादर्शे 'दुःखमा...' इति पाठः ।
For Private & Personal Use Only
।।।४११ ।।
www.jainelibrary.org