SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ 69 GRhodod चैतन्नियमादेव यत्स्थितम् । आसन्नोऽयमृजुर्मार्गस्तद्भेदस्तत्कथं भवेत् ।।” (योगदृष्टिसमुच्चय १३३) 'इति । कथं तर्हि देशनाभेदः ? इत्यत आह- तेषां सर्वज्ञानां भववैद्यानां = संसाररोगभिषग्वराणां चित्रा = नानाप्रकारा गीः शिष्याऽऽनुगुण्यतो = विनेयाऽभिप्रायाऽनुरोधात् । यथा वैद्या बालादीन् प्रति 'नैकमौषधमुपदिशन्ति, किं तु यथायोग्यं विचित्रं, तथा कपिलादीनामपि कालान्तराऽपायभीरून् शिष्यानधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना देशना । सुगतादीनां तु भोगाऽऽस्थावतोऽधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना देशनेति । न तु तेऽन्वयव्यतिरेकवद्वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः । तदुक्तं- "चित्रा तु देशनैतेषां स्याद्विनेयाऽऽनुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ।।” (योगदृष्टिसमुच्चय १३४) ।।२७।। तयैव बीजाऽऽधानादेर्यथाभव्यमुपक्रिया । अचिन्त्यपुण्यसामर्थ्यादेकस्या वा 'विभेदतः ।।२८।। तयैवेति । तयैव = चित्रदेशनयैव बीजाऽऽधानादेः = भवोद्वेगादिभावलक्षणात यथाभव्यं = भव्यसदृशं उपक्रिया = उपकारो भवति । यदुक्तं- “यस्य येन प्रकारेण बीजाऽऽधानादिसम्भवः । १. मुद्रितप्रतौ 'इति' पदं नास्ति । २. हस्तादर्श 'वेद्या' इति पाठः । ३. मुद्रितप्रती 'नैक मोष...' इत्यशुद्धः पाठः । ४. मुद्रतप्रतो ....रेकवस्तु...' इति त्रुटितः पाठः । ५. हस्तादर्श 'देशनेते...' इत्यशुद्धः पाठः । ६. मुद्रितप्रती 'वापि भेदतः' इत्यशुद्धः पाठः । ॥४१०॥ २३/२८॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy