SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ भय मार्गः। जलधौ = समुद्रे तीरमार्गवत् दूराऽऽसन्नादिभेदेऽपि तत्त्वतस्तदैक्यात् । प्राप्यस्य मोक्षस्य सदाशिव-परब्रह्म-सिद्धात्म-'तथातादिशब्दैर्वाच्यस्य शाश्वतशिवयोगाऽतिशयितस द्भावाऽऽलम्बन-बृहत्त्वबृंहकत्वनिष्ठितार्थत्वाऽऽकालतथाभावाद्यर्थाऽभेदेनैकत्वात्तन्मार्गस्याऽपि तथात्वात् । तदुक्तं → "एक एव तु मार्गोऽपि तेषां शमपरायणः । अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ।। संसाराऽतीततत्त्वं तु परं निर्वाणसंज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ।। सदाशिवः परं ब्रह्म सिद्धात्मा 'तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ।। तल्लक्षणाऽविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ।। ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसम्मोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ।।" (योगदृष्टिसमुच्चय १२८-१३२) ।।२६।। तस्मादचित्रभक्त्याऽऽप्याः सर्वज्ञा न भिदामिताः । चित्रा गीर्भववैद्यानां तेषां शिष्याऽऽनुगुण्यतः ।।२७।। तस्मादिति । तस्मात् = सर्वेषां योगिनामेकमार्गगामित्वात् अचित्रभक्त्या = एकरूपया भक्त्या आप्याः = प्राप्याः सर्वज्ञाः न भिदामिता = न भेदं प्राप्ताः । तदुक्तं- “सर्वज्ञपूर्वकं खभ का ॥४०९।। १. मुद्रितप्रतौ '...तथता' इत्यशुद्धः पाठः । २. हस्तादर्श 'तथता' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ 'सर्व' इत्यशुद्ध: पाठः । Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy