SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 19 It +6 Photo कर्माणि ज्ञानपूर्वाणि श्रुतशक्त्या च मुक्तये ।।२५।। भवायेति । बुद्धिपूर्वाणि कर्माणि स्वकल्पनाप्राधान्याच्छास्त्रविवेकादनादराद् विपाकस्य विरसत्वतो (=विपाकविरसत्वतः) भवाय = संसाराय भवन्ति। तदुक्तं- “बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम्। संसारफलदान्येव विपाकविरसत्वतः।।" (योगदृष्टिसमुच्चय १२४) ज्ञानपूर्वाणि च तानि तथाविवेकसम्पत्तिजनितया श्रुतशक्त्या अमृतशक्तिकल्पया मुक्तये = निःश्रेयसाय | यदुक्तं- “ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् । श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ।।” (योगदृष्टिसमुच्चय १२५) ।।२५।। असंमोहसमुत्थानि योगिनामाशु मुक्तये । भेदेऽपि तेषामेकोऽध्वा जलधौ तीरमार्गवत् ।।२६।। असंमोहेति । असंमोहसमुत्थानि तु कर्माणि योगिनां भवातीतार्थयायिनां आशु = शीघ्रं न पुनर्ज्ञानपूर्वकवदभ्युदयलाभव्यवधानेनाऽपि', मुक्तये भवन्ति । यथोक्तं → "असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवाऽतीताऽर्थयायिनाम् ।। प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम्। भवभोगविरक्तास्ते भवाऽतीताऽर्थयायिनः।।” + (योगदृष्टिसमुच्चय १२६-१२७) । भेदेऽपि = गुणस्थानपरिणतितारतम्येऽपि तेषां = योगिनां एकोऽध्वा = एक एव ॥ १. मुद्रितप्रतौ '...धानेऽपि' इत्यशुद्धः पाठः । | ||४०८॥ २३/२६ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy