SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ बुद्धिरिति । बुद्धिः = तथाविधोहरहितं शब्दार्थश्रवणमात्रजं ज्ञानम् । यदाह- "इन्द्रियार्थाऽऽश्रया बुद्धिः” (योगदृष्टिसमुच्चय १२१)। ज्ञानं = तथाविधोहेन गृहीताऽर्थतत्त्वपरिच्छेदनम् । तदाह- "ज्ञानं त्वागमपूर्वकम्"। (योगदृष्टिसमुच्चय १२१) असम्मोहो = हेयोपादेयत्यागोपादानोपहितं ज्ञानम् । यदाह- “सदनुष्ठानवच्चैतदसम्मोहोऽभिधीयते” (योगदृष्टिसमुच्चय १२१)। एवं त्रिविधो बोध इष्यते स्वस्वपूर्वाणां कर्मणां भेदसाधक: “तभेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनां” (योगदृष्टिसमुच्चय १२०) इति वचनात् । रत्नोपलम्भ-तज्ज्ञानतदवाप्तीनां निदर्शनात् (रत्नोपलम्भतज्ज्ञानतदवाप्तिनिदर्शनात्) । यथा ह्युपलम्भादिभेदाद्रत्नग्रहणभेदस्तथा प्रकृतेऽपि बुद्ध्यादिभेदादनुष्ठानभेद इति ।।२३।। आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तज्ज्ञसेवा च सदनुष्ठानलक्षणम् ।।२४।। ___ आदर इति । आदरो = यत्नाऽतिशय इष्टाऽऽप्तौ । करणे प्रीतिः = अभिष्वङ्गात्मिका। अविघ्नः = करण एवाऽदृष्टसामर्थ्यादपायाभावः। सम्पदागमः, तत एव शुभभावपुण्यसिद्धेः। जिज्ञासा' इष्टादिगोचरा । तज्ज्ञसेवा च इष्टादिज्ञसेवा । चशब्दात्तदनुग्रहग्रहः । एतत् सदनुष्ठानलक्षणं तदनुबन्धसारत्वात् ।।२४।। भवाय बुद्धिपूर्वाणि विपाकविरसत्वतः । १. हस्तादर्श ....ज्ञासा चेष्टा' इति पाठः । २. मुद्रितप्रतौ ....दनुग्रह' इति त्रुटितः पाठः । ||४०७॥ २३/२४ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy