SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ 1894 he too dhood s त ग्र ह नि त्ति द्वा त्रिं शि का २३/२३ Jain Education International तदन्यद्वेषसङ्गता =) तद्रागतदन्यद्वेषाभ्यां स्वाऽभीष्टदेवतारागानभीष्टद्वेषाभ्यां सङ्गता = युक्ता, मोहगर्भत्वात् । अचित्रा = एकाकारा चरमे तु तदतीते तु एषा भक्ति: शमसारा = शमप्रधाना अखिलैव हि तथासंमोहाऽभावात् इति ।। २१ ।। इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः । फलं चित्रं प्रयच्छन्ति तथा बुद्ध्यादिभेदतः ।। २२ ।। इष्टापूर्तानीति । इष्टापूर्तानि कर्माणि लोके चित्राऽभिसन्धितः = संसारिदेवस्थानादिगत`विचित्राऽध्यवसायात् मृदु-मध्याऽधिमात्ररागादिरूपात् । तथा बुद्ध्यादीनां वक्ष्यमाणलक्षणानां भेदतः फलं चित्रं = नानारूपं प्रयच्छन्ति । विभिन्नानां नगराणामिव विभिन्नानां संसारिदेवस्थानानां प्राप्तेरुपायस्याऽनुष्ठानस्याऽभिसन्ध्यादिभेदेन विचित्रत्वात् । तदुक्तं “संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् ।। तत् तस्मात्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ।। " ← ( योगदृष्टिसमुच्चय ११३,११४) ।।२२।। बुद्धिर्ज्ञान 'मसंमोहस्त्रिविधो बोध इष्यते । रत्नोपलम्भ-तज्ज्ञान-तदवाप्तिनिदर्शनात् ।। २३ ।। १. हस्तादर्शे 'यक्ता' इत्यशुद्धः पाठः । २ हस्तादर्शे 'गताविचि' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'ज्ञानसंमो...' इत्यशुद्धः पाठः । For Private & Personal Use Only ||४०६ ॥ www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy