SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ त ग्र she E ह त्ति द्वा शि का २३/२१ Jain Education International देवेषु योगशास्त्रेषु चित्राऽचित्रविभागतः । भक्तिवर्णनमप्येवं युज्यते तदभेदतः । । १९ ।। देवेष्वति । एवं = इष्टाऽनिष्टनामभेदे अपि तदभेदतः = तत्त्वतः सर्वज्ञाऽभेदात् योग-शास्त्रेषु = सौवाध्यात्मचिन्ताशास्त्रेषु देवेषु = लोकपाल - मुक्तादिषु चित्राऽचित्रविभागतो भक्तिवर्णनं युज्यते । तदुक्तं- " चित्राऽचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ।।” ( योगदृष्टिसमुच्चय ११०) ।।१९।। संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीने पुनस्तत्त्वे तदतीताऽर्थयायिनाम् ।। २० ।। = तु संसारिष्विति । संसारिषु हि देवेषु = लोकपालादिषु भक्तिः = सेवा तत्कायगामिनां संसारिदेवकायगामिनाम् । तदती संसाराऽतीते पुनः तत्त्वे तदतीताऽर्थयायिनां संसाराऽतीतमार्गगामिनां योगिनां भक्तिः ||२०|| चित्रा चाऽऽद्येषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ।। २१ ।। चित्रा चेति । चित्रा च = नानाप्रकारा च आद्येषु = सांसारिकेषु देवेषु (तद्राग १. हस्तादर्शे 'वेदेषु' इत्यशुद्धः पाठः । २ हस्तादर्शे 'रात्मंतेषु' इत्यशुद्धः पाठः । = ← ( योगदृष्टिसमुच्चय १०७-१०९ ) ।।१८।। = For Private & Personal Use Only ॥४०५॥ www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy