SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ कु 94 he too dE hot s त र्क ग्र ह नि वृ द्वा शि का २३/१८ Jain Education International सर्वज्ञेति । सर्वज्ञप्रतिपत्त्यंशमाश्रित्य अमलया = रागद्वेषमलरहितया धिया = बुद्ध्या निर्व्याजं औचित्येन सर्वज्ञोक्तपालनपरतया तुल्यता भाव्या सर्वतन्त्रेषु = सर्वदर्शनेषु योगिनां मुमुक्षूणाम् । तदुक्तं- “तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवाऽसौ तेनांशेनैव धीमताम् ।। " ( योगदृष्टिसमुच्चय १०६) ।। १७ ।। अवान्तरभेदस्तु सामान्याऽविरोधीत्याह = = = दूराऽऽसन्नादिभेदस्तु' 'तभृत्यत्वं निहन्ति न । एको नामादिभेदेन भिन्नाssचारेष्वपि प्रभुः ।। १८ ।। दूरेति । दूराऽऽसन्नादिभेदस्तु तद्भृत्यत्वं = सर्वज्ञोपासकत्वं न निहन्ति । एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाऽविशेषवत् प्रकृतोपपत्तेः । भिन्नाऽऽचारेष्वपि तथाऽधिकारभेदेन नानाविधाऽनुष्ठानेष्वपि योगिषु नामादीनां = अर्हदादिसंज्ञादीनां भेदेन ( = नामादिभेदेन ) एकः प्रभुः = उपास्यः । तदुक्तं “यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूराऽऽसन्नादिभेदेऽपि तद्भृत्याः सर्व एव ते ।। सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाऽऽचारस्थिता अपि ।। न भेद एव तत्त्वेन सर्वज्ञानां महात्मनां । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ।। " १. हस्तादर्शे-मुद्रितप्रतिषु च '...भेदोऽपि ' इति पाठः । परं व्याख्यानुसारेणात्र 'भेदस्तु' इति पाठः समीचीनः । २. हस्तादर्शे 'तद्भत्यं' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'भाव्यते तन्म...' इत्यशुद्धः पाठः । परं मुद्रितयोगदृष्टिसमुच्चयप्रतानुसारेण शुद्धः पाठो गृहीतोऽत्र । For Private & Personal Use Only ।।।४०४ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy