SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ कु 94 he too dE hot s त र्क ग्र ह नि वृ द्वा शि का २३/१८ Jain Education International सर्वज्ञेति । सर्वज्ञप्रतिपत्त्यंशमाश्रित्य अमलया = रागद्वेषमलरहितया धिया = बुद्ध्या निर्व्याजं औचित्येन सर्वज्ञोक्तपालनपरतया तुल्यता भाव्या सर्वतन्त्रेषु = सर्वदर्शनेषु योगिनां मुमुक्षूणाम् । तदुक्तं- “तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवाऽसौ तेनांशेनैव धीमताम् ।। " ( योगदृष्टिसमुच्चय १०६) ।। १७ ।। अवान्तरभेदस्तु सामान्याऽविरोधीत्याह = = = दूराऽऽसन्नादिभेदस्तु' 'तभृत्यत्वं निहन्ति न । एको नामादिभेदेन भिन्नाssचारेष्वपि प्रभुः ।। १८ ।। दूरेति । दूराऽऽसन्नादिभेदस्तु तद्भृत्यत्वं = सर्वज्ञोपासकत्वं न निहन्ति । एकस्य राज्ञो नानाविधप्रतिपत्तिकृतामपि एकभृत्यत्वाऽविशेषवत् प्रकृतोपपत्तेः । भिन्नाऽऽचारेष्वपि तथाऽधिकारभेदेन नानाविधाऽनुष्ठानेष्वपि योगिषु नामादीनां = अर्हदादिसंज्ञादीनां भेदेन ( = नामादिभेदेन ) एकः प्रभुः = उपास्यः । तदुक्तं “यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूराऽऽसन्नादिभेदेऽपि तद्भृत्याः सर्व एव ते ।। सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाऽऽचारस्थिता अपि ।। न भेद एव तत्त्वेन सर्वज्ञानां महात्मनां । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ।। " १. हस्तादर्शे-मुद्रितप्रतिषु च '...भेदोऽपि ' इति पाठः । परं व्याख्यानुसारेणात्र 'भेदस्तु' इति पाठः समीचीनः । २. हस्तादर्शे 'तद्भत्यं' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'भाव्यते तन्म...' इत्यशुद्धः पाठः । परं मुद्रितयोगदृष्टिसमुच्चयप्रतानुसारेण शुद्धः पाठो गृहीतोऽत्र । For Private & Personal Use Only ।।।४०४ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy