________________
2 44
तत्त्वतः।।” (योगदृष्टिसमुच्चय १०३) तत्प्रतिपत्तिः सर्वज्ञभक्तिश्च यावतां तत्तद्दर्शनस्थानां, ॥ ते सर्वेऽपि बुधाः तं = सर्वज्ञ मुख्यं सामान्यतो विशेषाऽनिर्णयेऽपि आपन्नाः = आश्रिताः, निरतिशयितगुणवत्त्वेन प्रतिपत्तेः वस्तुतः सर्वज्ञविषयकत्वात्, गुणवत्ताऽवगाहनेनैव तस्या भक्तित्वाच्च । यथोक्तं- “प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ।।” (योगदृष्टिसमुच्चय १०४) ।।१५।।
न ज्ञायते विशेषस्तु सर्वथाऽसर्वदर्शिभिः ।
अतो न ते तमापन्ना विशिष्य भुवि केचन ।।१६।। नेति । विशेषस्तु = सर्वज्ञज्ञानादिगतभेदस्तु असर्वदर्शिभिः = छद्मस्थैः सर्वथा = सर्वैः प्रकारैः न ज्ञायते । अतो न ते सर्वज्ञाऽभ्युपगन्तारः तं = सर्वज्ञं आपन्नाः = आश्रिताः विशिष्य भुवि = पृथिव्यां केचन । तदुक्तं- "विशेषस्तु पुनस्तस्य कार्येनाऽसर्वदर्शिभिः । सर्वेन ज्ञायते तेन तमापन्नो न कश्चनः ।।” (योगदृष्टिसमुच्चय १०५) ।।१६।। अतः सामान्यप्रतिपत्त्यंशेन सर्वयोगिषु परिशिष्टा 'तुल्यतैव भावनीयेत्याह
सर्वज्ञप्रतिपत्त्यंशमाश्रित्याऽमलया धिया। निर्व्याज तुल्यता भाव्या सर्वतन्त्रेषु योगिनाम् ।।१७।।
।४०३॥
भ 2
२३/१७
१. हस्तादर्श 'कश्च' इति त्रुटितः पाठः । २. हस्तादर्श 'तुल्यैव' इत्यशुद्धः पाठः । ३. हस्तादर्श '...मालया' इत्यशुद्धः पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org