________________
।। = धर्माद्यतीन्द्रियार्थदर्शी भवेत् ।।१३।। ननु शास्त्राणामपि भिन्नत्वात्कथं शास्त्रश्रद्धाऽपि स्यादित्यत आह
तत्त्वतः शास्त्रभेदश्च न शास्तृणामभेदतः ।
मोहस्तदधिमुक्तीनां तद्भेदाऽऽश्रयणं ततः ।।१४।। ___ तत्त्वत इति । तत्त्वतो = धर्मवादाऽपेक्षया तात्पर्यग्रहात् शास्त्रभेदश्च न अस्ति, शास्तृणां = धर्मप्रणेतृणां अभेदतः। तत्तन्नयाऽपेक्षदेशनाभेदेनैव स्थूलबुद्धीनां तद्भेदाऽभिमानात्। अत एवाऽऽह- ततः = तस्मात् तदधिमुक्तीनां = शास्तृश्रद्धावतां तद्भेदाश्रयणं = शास्तृभेदाऽगीकरणं मोहो = अज्ञानं, निर्दोषत्वेन सर्वेषामैक्यरूप्यात् ।
तदुक्तं- “न तत्त्वतो भिन्नमताः सर्वज्ञा बहवो यतः ।। मोहस्तदधिमुक्तीनां तद्भेदाऽऽश्रयणं ततः ।।"(योगदृष्टिसमुच्चय १०२) ।।१४।।
"सर्वज्ञो मुख्य एकस्तत्प्रतिपत्तिश्च यावताम् ।
सर्वेऽपि ते तमापन्ना मुख्यं सामान्यतो बुधाः ।।१५।। 'सर्वज्ञ'ति । सर्वज्ञो मुख्यः = तात्त्विकाऽऽराधनाविषय एकः, सर्वज्ञत्वजात्यविशेषात् ।
तदुक्तं- “सर्वज्ञो नाम यः कश्चित पारमार्थिक एव हि। स एक एव सर्वज्ञ व्यक्तिभेदेऽपि २३/१५
१. मुद्रितप्रतावत्र 'तृ' इत्येवमशुद्धः पाठः । २. हस्तादर्श '..दविमु.' इत्यशुद्धः पाठः । ३. हस्तादर्श '..पेक्षतात्प..' इति पाठान्तरम् । ४. हस्तादर्श 'सर्वज्ञमु...' इति पाठः । ५. हस्तादर्श ....ख्यस्त्वात्त्वि...' इत्यशुद्धः पाठः ।
।।।।४०२।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org