________________
भवभय 420
द्विचन्द्रेति' । द्विचन्द्र-स्वप्नविज्ञाने एव निदर्शने = उदाहरणमात्रे तबलादुत्थितः (=द्विचन्द्र-स्वप्नविज्ञाननिदर्शनबलोत्थितः) कुतर्कः धियां = सर्वज्ञानानां निरालम्बनतां = अलीकविषयतां अपि साधयति ।।११।।
तत्कुतर्केण पर्याप्तमसमञ्जसकारिणा ।
अतीन्द्रियाऽर्थसिद्ध्यर्थं नाऽवकाशोऽस्य कुत्रचित् ।।१२।। तदिति । तदसमञ्जसकारिणा = प्रतीतिबाधितार्थसिद्ध्यनुधाविना पर्याप्तं कुतर्केण । अतीन्द्रियार्थानां = धर्मादीनां सिद्ध्यर्थं (=अतीन्द्रियार्थसिद्धयर्थ) न अस्य = 'कुतर्कस्य कुत्रचिदवकाशः ।।१२।।
शास्त्रस्यैवाऽवकाशोऽत्र कुतर्काऽग्रहतस्ततः ।।
शीलवान् योगवानत्र श्रद्धावांस्तत्त्वविद् भवेत् ।।१३।। शास्त्रस्येति । अत्र = अतीन्द्रियार्थसिद्धौ शास्त्रस्यैवाऽवकाशः, तस्याऽतीन्द्रियार्थसाधनसमर्थत्वात्, शुष्कतर्कस्याऽतथात्वात् । तदुक्तं- “गोचरस्त्वागमस्यैव ततस्तदुपलब्धितः । चन्द्रसूर्यो"परागादिसंवाद्यागमदर्शनात् ।।" (योगदृष्टिसमुच्चय ९९) ततः = तस्मात् कुतर्काऽग्रहतोऽत्र = शास्त्रे श्रद्धावान् शीलवान् = परंद्रोहविरतिमान् योगवान् = सदा योगतत्परः तत्त्वविद् १. हस्तादर्श 'इति' पदं नास्ति । २. मुद्रितप्रतौ 'धर्मार्थानां' इति पाठोऽशुद्धः प्रतिभाति । ३. हस्तादर्श 'कुता...' इत्यशुद्धः पाठः । ४. हस्तादर्श 'परागासंवा...' इत्यशुद्धः पाठः । ५. हस्तादर्श-मुद्रितप्रतिषु सर्वत्र ...विरतियोगवान्' इत्यशुद्धः पाठः । योगदृष्टिसमुच्चयानुसारेण शुद्धः पाठोऽत्र गृहीतः ।
।।४०१।।
२३/१३
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org