SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ।। कोशपानादृते ज्ञानोपायो नाऽस्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकदृश्यते यतः।।" || (योगदृष्टिसमुच्चय ९३-९४) ।।९।। दृष्टान्तमात्रसौलभ्यात्तदयं केन 'वार्यताम् । स्वभावबाधने नाऽलं कल्पनागौरवादिकम् ।।१०।। ___ दृष्टान्तेति । दृष्टान्तमात्रस्य सौलभ्यात् (=दृष्टान्तमात्रसौलभ्यात्) तत् = तस्मात् अयं = अन्यथास्वभावविकल्पकः कुतर्कः केन वार्यताम् ? अग्निसन्निधावपां दाहस्वभावत्वे कल्पनागौरवं बाधकं स्यादित्यत आह- स्वभावस्योपपत्तिसिद्धस्य बाधने ( स्वभावबाधने) कल्पनागौरवादिकं नाऽलं = न समर्थं, कल्पनासहस्रेणाऽपि स्वभावस्याऽन्यथाकर्तुमशक्यत्वात् । अत एव न कल्पनालाघवेनाऽपि स्वभावान्तरं कल्पयितुं शक्यमिति द्रष्टव्यम् । ___ अथ स्वस्य भावः = अनागन्तुको धर्मो नियतकारणत्वादिरूप एव, स च कल्पनालाघवज्ञानेन गृह्यते, अन्यथागृहीतश्च कल्पनागौरवज्ञानेन त्यज्यतेऽपीति चेत् ? न, गौरवेऽपि अप्रामाणिकत्वस्य दुर्ग्रहत्वात् प्रामाणिकस्य च गौरवादेरप्यदोषत्वादिति दिक् ।।१०।। द्विचन्द्र-स्वप्नविज्ञाननिदर्शनबलोत्थितः । धियां निरालम्बनतां कुतर्कः साधयत्यपि ।।११।। ।।४००।। २३/११ १. मुद्रितप्रतौ हस्तादर्श चात्र ‘बाध्यतामिति पाठः । पर व्याख्यानुसारेणात्र 'वार्यतामिति पाठः सङ्गच्छते । अतो व्याख्यानुसृतः पाठोऽत्र मुद्रितः । २. मुद्रितप्रतौ 'स्यान्वथा...' इत्यशुद्धः पाठः । 69 C +6 FedEE Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy