________________
जनाभ भयभ
।। सद्गुरुमिण्ठेनैव मोच्यत इति ।।७।।
स्वभावोत्तरपर्यन्त एषोऽत्राऽपि च तत्त्वतः ।
नाऽर्वाग्दृग्ज्ञानगम्यत्वमन्यथाऽन्येन कल्पनात् ॥८॥ स्वभावेति। एष = कुतर्कः स्वभावोत्तरपर्यन्तः, अत्र च “वस्तुस्वभावैरुत्तरं वाच्यं" ( ) इति वचनात् । अत्राऽपि च •स्वभावे नाऽर्वाग्दृशः = छद्मस्थस्य ज्ञानगम्यत्वं (=नाऽर्वाग्दृग्ज्ञानगम्यत्वं) तत्त्वतः, अन्यथाक्लृप्तस्यैकेन वादिना• स्वभावस्य अन्येनाऽन्यथाकल्पनात् ।।८।। तथाहि -
अपां दाहस्वभावत्वे दर्शिते दहनान्तिके ।
विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्तेः किमुत्तरम् ॥९॥ अपामिति । अपां = शैत्यस्वभावत्ववादिनं प्रति अपां दहनाऽन्तिके दाहस्वभावत्वे दर्शिते अध्यक्षविरोधपरिहारात् । विप्रकृष्टेऽप्ययस्कान्ते स्वार्थशक्तेः = लोहाऽऽकर्षणशक्तेर्विप्रकर्षमावस्याऽप्रयोजकत्वात्, किमुत्तरं अन्यथावादिनः ? स्वभावस्याऽपर्यनुयोज्यत्वाद्विशेषस्याऽविनिगमनात् । तदुक्तं - “अतोऽग्निः क्लेदयत्यम्बुसन्निधौ दहतीति च। अबग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः।। १. मुद्रितप्रतौ 'वचनता' इत्यशुद्धः पाठः । ....... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श द्विरुक्तः । २. प्रकृते च योगदृष्टिसमुच्चये 'अम्ब्बग्नि...' इति पाठो विद्यते । नार्थभेदः कश्चिद् ।
| ||३९९।।
२३/९
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org