________________
मवबुध्यते, एवमेतेऽपि वादिनः स्वपक्षाऽभिनिवेशाऽन्धा विचित्रं वदन्तोऽपि नोच्यमानतत्त्वं प्रतिपद्यन्ते इति ।।५।।
विकल्पकल्पनाशिल्पं प्रायोऽविद्याविनिर्मितम् ।
तद्योजनामयश्चाऽत्र कुतर्कः किमनेन तत् ॥६॥ विकल्पेति । विकल्पाः शब्दविकल्पा अर्थविकल्पाश्च तेषां कल्पनारूपं शिल्पं (=विकल्पकल्पनाशिल्पं) प्रायो = बाहुल्येन अविद्याविनिर्मितं = ज्ञानावरणीयादिकर्मसम्पर्कजनितम् । तद्योजनामयः = तदेकधारात्मा चाऽत्र कुतर्कः। तत् किमनेन मुमुक्षूणां, दुष्टकारणप्रभवस्य सत्कार्याऽहेतुत्वात्।।६।।
जातिप्रायश्च बाध्योऽयं प्रकृताऽन्यविकल्पनात् ।
हस्ती हन्तीतिवचने प्राप्ताऽप्राप्तविकल्पवत् ।।७।। ___जातिप्रायश्चेति । जातिप्रायश्चः दूषणाऽऽभासकल्पश्च बांध्यः प्रतीति-फलाभ्यां अयं = कुतर्कः, प्रकृताऽन्यस्य = उपादेयाद्यतिरिक्तस्य अप्रयोजनस्य वस्त्वंशस्य विकल्पनात् (=प्रकृतान्यविकल्पनात्) । 'हस्ती हन्तीति वचने हस्त्यारूढेनोक्ते प्राप्ताऽप्राप्तविकल्पवत् नैयायि
कच्छात्रस्य । यथा ह्ययमित्थं वक्तारं प्रति “किमयं हस्ती प्राप्तं व्यापादयति? उताऽप्राप्तं? २३/७
आद्ये त्वामपि व्यापादयेत्, अन्त्ये च जगदपी"ति विकल्पयन्नेव हस्तिना गृहीतो मिण्ठेन ।। कथमपि मोचितः । तथा तथाविधविकल्पकारी तत्तदर्शनस्थोऽपि कुतर्कहस्तिना गृहीतः
||३९८॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org