________________
24
०५ -
'भावियोगिहितायोच्चैर्मोह दीपसमं वचः ।।४।। उक्तं चेति । उक्तं च निरूपितं पुनः योगमार्गः = अध्यात्मविद्भिः पतञ्जलिप्रभृतिभिः 'तपोनिधूतकल्मषैः = प्रशमप्रधानेन तपसा क्षीणमार्गाऽनुसारिबोधबाधकमोहमलैः भावियोगिहिताय = भविष्यद्विवादबहुलकलिकालयोगिहितार्थं उच्चैः = अत्यर्थं मोहदीपसमं = मोहाऽन्धकारप्रदीपस्थानीयं वचो = वचनम् ।।४।।
वादांश्च प्रतिवादांश्च वदन्तो निश्चितांस्तथा ।
तत्त्वान्तं नैव गच्छन्ति तिलपीलकवद् गतौ ।।५।। वादांश्चेति । वादांश्च पूर्वपक्षरूपान् प्रतिवादांश्च परोपन्यस्तपक्षप्रतिवचनरूपान् वदन्तो = ब्रवाणाः निश्चितान असिद्धाऽनैकान्तिकादिहेत्वाभासनिरासेन तथा = तेन प्रकारेण तत्तच्छास्त्रप्रसिद्धेन सर्वेऽपि 'दर्शनिनो ममक्षवोऽपि तत्त्वान्तं = आत्मादितत्त्वप्रसिद्धिरूपं न = नैव गच्छन्ति = प्रतिपद्यन्ते, (गतौ) तिलपीलकवत् = 'तिलपीलक इव । निरुद्धाऽक्षिसञ्चारस्तिलयंत्रवाहनपरो यथा ह्ययं नित्यं भ्राम्यन्नपि निरुद्धाऽक्षतया न तत्परिमाण
भ
।।३९७॥
२३/५
१. हस्तादर्श 'भावयोगि' इत्यशुद्धः पाठः । हस्तादर्शान्तरे च 'भावयोग' इत्यशुद्धः पाठः । २. हस्तादर्श 'महादीप...' इति पाठः । व्याख्यानुसारेण च सोऽशुद्धः । ३. हस्तादर्श .प्रभृति..' इति त्रुटितः पाठः । ४. मुद्रितप्रतौ 'तपसा नि...' इति पाठः । स चाऽर्थतः शुद्धः परं सन्दर्भानुसारेणाऽशुद्धः प्रतिभाति । ५. हस्तादर्श 'दर्शिनो' इत्यशुद्धः पाठः । ६, हस्तादर्श 'तिपी...' इति त्रुटितः पाठः ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org