________________
1 = पराऽनधीनं प्रवर्तते ।।१८।।
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् ।
एतदुक्तं समासेन लक्षणं सुख-दुःखयोः ॥१९॥ सर्वमिति । सर्वं परवशं = पराऽधीनं दुःखम्, तल्लक्षणयोगात् । सर्वमात्मवशं = अपराधीनं सुखम्, अत एव हेतोः। एतदुक्तं मुनिना समासेन' = सङ्क्षपेण लक्षणं = स्वरूपं सुख-दुःखयोः । ___ इत्थं च ध्यानजमेव तत्त्वतः सुखं, न तु पुण्योदयभवमपीत्यावेदितं भवति । तदाह"पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतद् ध्यानजं तात्त्विकं सुखम्।।" (योगदृष्टि-१७३) ।।१९।।
ध्यानं च विमले बोधे सदैव हि महात्मनाम् । २४/२०
सदा प्रसृमरोऽनघ्र प्रकाशो गगने विधोः ॥२०॥ ___ ध्यानं चेति । विमले बोधे च सति महात्मनां सदैव हि ध्यानं भवति, तस्य तन्नियतत्वात्। दृष्टान्तमाह- अनभ्रे = अभ्ररहिते गगने विधोः उदितस्य प्रकाशः सदा प्रसृमरो भवति, तथाऽवस्थास्वाभाव्यादिति ।।२०।। १. मुद्रितप्रतौ 'संक्षेपेण समासेन' इति पाठव्यत्ययः । स च मूलग्रन्थानुसारेणाऽशुद्धः प्रतिभाति । २. हस्तादर्शे 'सुखयोः' इत्यशुद्धः त्रुटितः पाठः । ३. हस्तादर्श 'विरधो' इत्यशुद्धः पाठः ।
।।४२३।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org