________________
hhoo Photos
स
दृ
ष्टि
द्वा
शि
का
२४/२३
Jain Education International
सत्प्रवृत्तिपदं चेहाऽसङ्गाऽनुष्ठानसञ्ज्ञितम् ।
'संस्कारतः स्वरसतः प्रवृत्त्या मोक्षकारणम् ।। २१ ।।
सदिति । सत्प्रवृत्तिपदं चेह प्रभायां असङ्गाऽनुष्ठानसंज्ञितं भवति, संस्कारतः प्राच्यप्रयत्नजात् स्वरसतः = इच्छानैरपेक्ष्येण प्रवृत्त्या = प्रकृष्टवृत्त्या मोक्षकारणम् । यथा दृढदण्डनोदनाऽनन्तरमुत्तरश्चक्रभ्रमिसन्तानस्तत्संस्काराऽनुवेधादेव भवति, तथा प्रथमाऽभ्यासाद् ध्यानाऽनन्तरं तत्संस्काराऽनुवेधादेव भवन् । तत्सदृशपरिणामप्रवाहोऽसङ्गाऽनुष्ठानसञ्ज्ञां लभत इति भावार्थः ।। २१ ।।
प्रशान्तवाहितासंज्ञं विसभागपरिक्षयः ।
शिववर्त्म ध्रुवाऽध्वेति योगिभिर्गीयते ह्यदः । । २२॥
प्रशान्तेति । प्रशान्तवाहितासनं साङ्ख्यानां विसभागपरिक्षयो बौद्धानां शिववर्त्म शैवानां, ध्रुवाध्वा महाव्रतिकानां इति एवं हि योगिभिः अदः =
=
अऽसङ्गाऽनुष्ठानं
गीयते ||२२||
प्रशान्तवाहिता वृत्तेः संस्कारात् स्यान्निरोधजात् । प्रादुर्भाव-तिरोभावौ तद्व्युत्थानजयोरयम् ।।२३।।
१. हस्तादर्श 'संस्कार' इति त्रुटितः पाठः । २ मुद्रितप्रतौ 'भवन्' इति पदं नास्ति । ३. मुद्रितप्रतौ 'भावाथ'
इति त्रुटितः पाठः ।
For Private & Personal Use Only
।।४२४।।
www.jainelibrary.org