SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ स how d has to ष्टि द्वा त्रिं शि का २४/२४ Jain Education International = प्रशान्तेति । प्रशान्तवाहिता = परिहृतविक्षेपतया सदृशप्रवाहपरिणामिता वृत्तेः वृत्तिमयस्य चित्तस्य निरोधजात् संस्कारात् स्यात् । तदाह- "तस्य प्रशान्तवाहिता संस्कारात्” ( योगसूत्र ३ - १० ) । कोऽयं निरोध एवेत्यत आह- तद्व्युत्थानजयोः = निरोधजव्युत्थानजयोः संस्कारयोः प्रादुर्भाव-तिरोभावौ = वर्तमानाऽध्वाऽभिव्यक्ति-कार्यकरणाऽसामर्थ्याऽवस्थानलक्षण अयं निरोधः । चलत्वेऽपि गुणवृत्तस्योत्तोभयक्षण' वृत्तित्वाऽन्वयेन चित्तस्य तथाविधस्थैर्यमादाय निरोधपरिणामशब्दव्यवहारात् । तदुक्तं- “व्युत्थान-निरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्ताऽन्वयो निरोधपरिणामः” इति ( योगसूत्र ३ - ९ ) ।।२३।। सर्वार्थतैकाग्रतयोः समाधिस्तु क्षयोदयौ । तुल्यावेकाग्रता शान्तोदितौ च प्रत्ययाविह । । २४ ॥ = सर्वार्थतेति । सर्वार्थता = चलत्वान्नानाविधार्थग्रहणं चित्तस्य विक्षेपो धर्मः, एकाग्रता = एकस्मिन्नेवाऽऽलम्बने * सदृशपरिणामिता तयोः (= सर्वार्थतैकाग्रतयोः) क्षयोदयौ तु अत्यन्ताभिभवाभिव्यक्तिलक्षणौ समाधिः = उद्रिक्तसत्त्वचित्ताऽन्वयितयाऽवस्थितः समाधिपरिणामोऽभिधीयते । यदुक्तं- “सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः" इति ( योगसूत्र ३ - ११) । पूर्वत्र विक्षेपस्याऽभिभवमात्रं, इह त्वत्यन्ताऽभिभवोऽनुत्पत्तिरूपोऽतीताऽध्वप्रवेश इत्यनयोर्भेदः । १. सर्वत्र मुद्रितप्रती ...भयक्षयवृ...' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सर्वातै' इत्यशुद्धः पाठः । ३. हस्तादर्शे .. नेलंबन' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।४२५ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy