SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ स how d has to ष्टि द्वा त्रिं शि का २४/२४ Jain Education International = प्रशान्तेति । प्रशान्तवाहिता = परिहृतविक्षेपतया सदृशप्रवाहपरिणामिता वृत्तेः वृत्तिमयस्य चित्तस्य निरोधजात् संस्कारात् स्यात् । तदाह- "तस्य प्रशान्तवाहिता संस्कारात्” ( योगसूत्र ३ - १० ) । कोऽयं निरोध एवेत्यत आह- तद्व्युत्थानजयोः = निरोधजव्युत्थानजयोः संस्कारयोः प्रादुर्भाव-तिरोभावौ = वर्तमानाऽध्वाऽभिव्यक्ति-कार्यकरणाऽसामर्थ्याऽवस्थानलक्षण अयं निरोधः । चलत्वेऽपि गुणवृत्तस्योत्तोभयक्षण' वृत्तित्वाऽन्वयेन चित्तस्य तथाविधस्थैर्यमादाय निरोधपरिणामशब्दव्यवहारात् । तदुक्तं- “व्युत्थान-निरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्ताऽन्वयो निरोधपरिणामः” इति ( योगसूत्र ३ - ९ ) ।।२३।। सर्वार्थतैकाग्रतयोः समाधिस्तु क्षयोदयौ । तुल्यावेकाग्रता शान्तोदितौ च प्रत्ययाविह । । २४ ॥ = सर्वार्थतेति । सर्वार्थता = चलत्वान्नानाविधार्थग्रहणं चित्तस्य विक्षेपो धर्मः, एकाग्रता = एकस्मिन्नेवाऽऽलम्बने * सदृशपरिणामिता तयोः (= सर्वार्थतैकाग्रतयोः) क्षयोदयौ तु अत्यन्ताभिभवाभिव्यक्तिलक्षणौ समाधिः = उद्रिक्तसत्त्वचित्ताऽन्वयितयाऽवस्थितः समाधिपरिणामोऽभिधीयते । यदुक्तं- “सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः" इति ( योगसूत्र ३ - ११) । पूर्वत्र विक्षेपस्याऽभिभवमात्रं, इह त्वत्यन्ताऽभिभवोऽनुत्पत्तिरूपोऽतीताऽध्वप्रवेश इत्यनयोर्भेदः । १. सर्वत्र मुद्रितप्रती ...भयक्षयवृ...' इत्यशुद्धः पाठः । २ हस्तादर्शे 'सर्वातै' इत्यशुद्धः पाठः । ३. हस्तादर्शे .. नेलंबन' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।४२५ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy