SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ thura has de स ष्टि द्वा शि का २४/२४ Jain Education International इह = अधिकृतदर्शने तुल्यौ = एकरूपाऽऽलम्बनत्वेन सदृशौ शान्तोदितौ अतीताऽध्वप्रविष्टवर्तमानाऽध्वस्फुरितलक्षणौ च प्रत्ययौ एकाग्रता उच्यते समाहितचित्ताऽन्वनि । तदुक्तं - " शान्तोदितौ हि तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः " ( योगसूत्र ३ - १२) | न चैवमन्वयव्यतिरेक`वद्वस्त्वसम्भवः, यतोऽन्यत्राऽपि धर्म - लक्षणाऽवस्थापरिणामा दृश्यन्ते । तत्र धर्मिणः पूर्वधर्मनिवृत्तावुत्तरधर्माऽऽपत्तिर्धर्मपरिणामः । यथा मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः । लक्षणपरिणामश्च यथा तस्यैव घटस्याऽनागताऽध्वपरित्यागेन वर्तमानाऽध्वस्वीकारः, तत्परित्यागेन वाऽतीताऽध्वपरिग्रहः । अवस्था - परिणामश्च यथा तस्य एव घटस्य प्रथम - द्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन । चलगुणवृत्तीनां गुणपरिणमनं * धर्मीव शान्तोदितेषु शक्तिरूपेण स्थितेषु सर्वत्र सर्वात्मकत्ववद् 'अव्यपदेश्येषु धर्मेषु कथञ्चिद्भिन्नेष्वन्वयी दृश्यते । यथा पिण्ड - घटादिषु मृदेव प्रतिक्षणमन्याऽन्यत्वाद्विपरिणामाऽन्यत्वम् । तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते, यथा सुखादयः संस्थानादयो वा । केचिच्चाऽनुमानगम्याः, यथा कर्म - संस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाऽभिन्नरूपतया सर्वत्राऽनुगम इति न काचिदनुपपत्तिः । तदिदमुक्तं - " एतेन भूतेन्द्रियेषु धर्म-लक्षणाऽवस्थापरिणामा व्याख्याताः ( योगसूत्र ३ -१३ ) ” शान्तोदिताऽव्यपदेश्यधर्माऽनुपाती १. 'हि' पदं योगसूत्रे साम्प्रतं नोपलभ्यते । २. मुद्रितप्रतौ '... रेकवस्तु...' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'एव' नास्ति । ४. मुद्रितप्रतौ '..णामनं' इति पाठः । ५. मुद्रितप्रतौ ' सर्वात्मकत्वव्यपदेशे...' इत्यशुद्धः पाठः । ६. मुद्रितप्रती '...नुपत्ति' इति त्रुटितोऽशुद्धश्च पाठः । For Private & Personal Use Only ।।४२६ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy