________________
thura has de
स
ष्टि
द्वा
शि
का
२४/२४
Jain Education International
इह = अधिकृतदर्शने तुल्यौ = एकरूपाऽऽलम्बनत्वेन सदृशौ शान्तोदितौ अतीताऽध्वप्रविष्टवर्तमानाऽध्वस्फुरितलक्षणौ च प्रत्ययौ एकाग्रता उच्यते समाहितचित्ताऽन्वनि । तदुक्तं - " शान्तोदितौ हि तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः " ( योगसूत्र ३ - १२) | न चैवमन्वयव्यतिरेक`वद्वस्त्वसम्भवः, यतोऽन्यत्राऽपि धर्म - लक्षणाऽवस्थापरिणामा दृश्यन्ते । तत्र धर्मिणः पूर्वधर्मनिवृत्तावुत्तरधर्माऽऽपत्तिर्धर्मपरिणामः । यथा मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः । लक्षणपरिणामश्च यथा तस्यैव घटस्याऽनागताऽध्वपरित्यागेन वर्तमानाऽध्वस्वीकारः, तत्परित्यागेन वाऽतीताऽध्वपरिग्रहः । अवस्था - परिणामश्च यथा तस्य एव घटस्य प्रथम - द्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन । चलगुणवृत्तीनां गुणपरिणमनं * धर्मीव शान्तोदितेषु शक्तिरूपेण स्थितेषु सर्वत्र सर्वात्मकत्ववद् 'अव्यपदेश्येषु धर्मेषु कथञ्चिद्भिन्नेष्वन्वयी दृश्यते । यथा पिण्ड - घटादिषु मृदेव प्रतिक्षणमन्याऽन्यत्वाद्विपरिणामाऽन्यत्वम् । तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते, यथा सुखादयः संस्थानादयो वा । केचिच्चाऽनुमानगम्याः, यथा कर्म - संस्कारशक्तिप्रभृतयः । धर्मिणश्च भिन्नाऽभिन्नरूपतया सर्वत्राऽनुगम इति न काचिदनुपपत्तिः । तदिदमुक्तं - " एतेन भूतेन्द्रियेषु धर्म-लक्षणाऽवस्थापरिणामा व्याख्याताः ( योगसूत्र ३ -१३ ) ” शान्तोदिताऽव्यपदेश्यधर्माऽनुपाती
१. 'हि' पदं योगसूत्रे साम्प्रतं नोपलभ्यते । २. मुद्रितप्रतौ '... रेकवस्तु...' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'एव' नास्ति । ४. मुद्रितप्रतौ '..णामनं' इति पाठः । ५. मुद्रितप्रतौ ' सर्वात्मकत्वव्यपदेशे...' इत्यशुद्धः पाठः । ६. मुद्रितप्रती '...नुपत्ति' इति त्रुटितोऽशुद्धश्च पाठः ।
For Private & Personal Use Only
।।४२६ ।।
www.jainelibrary.org