________________
E_hoot
।। धर्मी (योगसूत्र ३-१४) “क्रमाऽन्यत्वं परिणामाऽन्यत्वे हेतुरिति (यो .सू.३-१५)”।।२४।। ।
अस्यां व्यवस्थितो योगी त्रयं निष्पादयत्यदः ।
ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदाऽऽवहा ।।२५।। ___ अस्यामिति । अस्यां = प्रभायां व्यवस्थितो योगी त्रयमदो निरोधसमाध्येकाग्रतालक्षणं निष्पादयति = साधयति । ततश्चेयं प्रभा सत्प्रवृत्ति पदावहा विनिर्दिष्टा, सर्वैः प्रकारैः प्रशान्तवाहिताया एव सिद्धेः ।।२५।।
समाधिनिष्ठा तु परा तदाऽऽसङ्गविवर्जिता ।
सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाऽऽशयेति च ॥२६॥
समाधीति । परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाणलक्षणसमाध्यासक्ता । तदाऽऽसङ्गेन २४/२७
समाध्यासङ्गेन विवर्जिता (=तदासगविवर्जिता) । सात्मीकृतप्रवृत्तिश्च = सर्वांगीणैकत्वपरिणतप्रवृत्तिश्च चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति च सर्वथा 'विशुद्ध्या प्रवृत्तिवासकचित्ताऽभावेन ।।२६।। स्वरूपमात्रनिर्भासं समाधिानमेव हि ।
11४२७॥ विभागमनतिक्रम्य परे ध्यानफलं विदुः ॥२७॥ १. मुद्रितप्रती .....त्तिपादव...' इत्यशुद्धः पाठः । २. हस्तादर्श 'विधा' इत्यशुद्धः पाठः । ३. पाटणहस्तादर्श अस्यां द्वात्रिंशिकायां १३तः २७ पर्यन्ताः कारिकाः न सन्ति ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org