SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ स 开ㄛK百科全 दृ ष्टि द्वा त्रिं शि का २४/२९ Jain Education International स्वरूपेति । स्वरूपमात्रस्य = 'ध्येयस्वरूपमात्रस्य निर्भासो यत्र तत्तथा - स्वरूपमात्रनिर्भासं) अर्थाकारसमावेशेन भूताऽर्थरूपतया न्यग्भूतज्ञानस्वरूपतया च ज्ञानस्वरूपशून्यताऽऽपत्तेः ध्यानमेव हि समाधिः । तदुक्तं- “ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति ( योगसूत्र ३ - ३ ) । विभागं अष्टाङ्गो योग इति प्रसिद्धं अनतिक्रम्यं = अनुल्लङ्घ्य परे ध्यानफलं समाधिरिति विदुः ||२७|| निराचारपदो ह्यस्यामतः स्यान्नाऽतिचारभाक् । चेष्टा चाऽस्याखिला भुक्तभोजनाऽभाववन्मता ।। २८ ।। निराचारेति । अस्यां दृष्टौ (हि) योगी नाऽतिचारभाक् स्यात्, तन्निबन्धनाऽभावात् । अतो निराचारपदः प्रतिक्रमणाद्यभावात् । चेष्टा चास्य = एतद्दृष्टिमतः अखिला भुक्त भोजनाऽभाववन्मता आचारजेयकर्माऽभावात् तस्य भुक्तप्रायत्वात्सिद्धत्वेन तदिच्छाविघटनात् ।। २८ ।। कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आह 'रत्नशिक्षादृगन्या हि तन्नियोजनदृग्यथा । फलभेदात्तथाऽऽचारक्रियाऽप्यस्य विभिद्यते ।। २९ ।। 1 रत्नेति' । रत्नशिक्षादृशोऽन्या ( = रत्नशिक्षादृगन्या) हि यथा शिक्षितस्य सतः १. हस्तादर्शे 'ध्येयस्वरूपमात्रस्य' इति पदं नास्ति । २. पाटणभाण्डागारीयहस्तादर्शेऽत्र '.... ग्यग्भूतपतया च ज्ञान... ' इति त्रुटितः पाठः । ३. मुद्रितप्रती '...क्रमाद्य...' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'रत्नशिष्या' इत्यशुद्धः पाठः । ५.. हस्तादर्शे 'रत्नेति' इति पदं नास्ति । For Private & Personal Use Only ।।४२८ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy