________________
स
开ㄛK百科全
दृ
ष्टि
द्वा
त्रिं
शि
का
२४/२९
Jain Education International
स्वरूपेति । स्वरूपमात्रस्य = 'ध्येयस्वरूपमात्रस्य निर्भासो यत्र तत्तथा - स्वरूपमात्रनिर्भासं) अर्थाकारसमावेशेन भूताऽर्थरूपतया न्यग्भूतज्ञानस्वरूपतया च ज्ञानस्वरूपशून्यताऽऽपत्तेः ध्यानमेव हि समाधिः । तदुक्तं- “ तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति ( योगसूत्र ३ - ३ ) । विभागं अष्टाङ्गो योग इति प्रसिद्धं अनतिक्रम्यं = अनुल्लङ्घ्य परे ध्यानफलं समाधिरिति विदुः ||२७||
निराचारपदो ह्यस्यामतः स्यान्नाऽतिचारभाक् ।
चेष्टा चाऽस्याखिला भुक्तभोजनाऽभाववन्मता ।। २८ ।। निराचारेति । अस्यां दृष्टौ (हि) योगी नाऽतिचारभाक् स्यात्, तन्निबन्धनाऽभावात् । अतो निराचारपदः प्रतिक्रमणाद्यभावात् । चेष्टा चास्य = एतद्दृष्टिमतः अखिला भुक्त भोजनाऽभाववन्मता आचारजेयकर्माऽभावात् तस्य भुक्तप्रायत्वात्सिद्धत्वेन तदिच्छाविघटनात् ।। २८ ।। कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आह
'रत्नशिक्षादृगन्या हि तन्नियोजनदृग्यथा ।
फलभेदात्तथाऽऽचारक्रियाऽप्यस्य विभिद्यते ।। २९ ।।
1
रत्नेति' । रत्नशिक्षादृशोऽन्या ( = रत्नशिक्षादृगन्या) हि यथा शिक्षितस्य सतः
१. हस्तादर्शे 'ध्येयस्वरूपमात्रस्य' इति पदं नास्ति । २. पाटणभाण्डागारीयहस्तादर्शेऽत्र '.... ग्यग्भूतपतया च ज्ञान... ' इति त्रुटितः पाठः । ३. मुद्रितप्रती '...क्रमाद्य...' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'रत्नशिष्या' इत्यशुद्धः पाठः । ५.. हस्तादर्शे 'रत्नेति' इति पदं नास्ति ।
For Private & Personal Use Only
।।४२८ ।।
www.jainelibrary.org