________________
तन्नियोजनदृक्, तथाऽऽचारक्रियाऽप्यस्य भिक्षाटनादिलक्षणा फलभेदाद्विभिद्यते । पूर्वं हि || साम्परायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिकर्मक्षय इति ।।२९।।
कृतकृत्यो यथा रत्लनियोगाद्रत्नविद् भवेत् ।
तथाऽयं धर्मसंन्यासविनियोगान्महामुनिः ।।३०।। कृतकृत्य इति । यथा (रत्ननियोगात्=) रत्नस्य नियोगात्' = शुद्धदृष्ट्या यथेच्छं व्यापाराद् रत्नविद् = रत्नवाणिज्यकारी कृतकृत्यो भवेत् । तथा अयं = अधिकृतदृष्टिस्थो धर्मसंन्यासविनियोगात् द्वितीयाऽपूर्वकरणे महामुनिः कृतकृत्यो भवति ।।३०।।
केवलश्रियमासाद्य सर्वलब्धिफलाऽन्विताम् । ___ परं परार्थं सम्पाद्य ततो योगाऽन्तमश्नुते ।।३१।। केवलेति । केवलश्रियं = केवलज्ञानलक्ष्मी आसाद्य = प्राप्य सर्वलब्धिफलाऽन्वितां सर्वोत्सुक्यनिवृत्त्या परं परार्थं यथाभव्यं सम्यक्त्वादिलक्षणं सम्पाद्य ततो योगाऽन्तं = योगपर्यन्तं अश्नुते = प्राप्नोति ।।३१।। तत्राऽयोगाद्योगमुख्याद् भवोपग्राहिकर्मणाम् ।
||४२९।। १. हस्तादर्श 'विनियोगात्' इति पाठः । स चार्थतः शुद्धः । २. मुद्रितप्रतौ 'यथेच्छव्यापा...' इति पाठः । ३. मुद्रितप्रतौ ....पाराद्विणिग्...' इत्यशुद्धः पाठः । हस्तादर्श च ...पाराद्वणिग्' इति पाठः । परं मूलानुसारेणात्र '...पाराद् रत्नविद्' इति पाठः शुद्धः प्रतिभातीति कृत्वाऽत्र गृहीतः ।।
२४/३१
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org