________________
क्ले
श
hot 5 who do क
हा
नो
पा
य
द्वा
त्रिं
शि
का
२५/१
Jain Education International
क्षयं कृत्वा 'प्रयात्युच्चैः परमानन्दमन्दिरम् ।। ३२ ।।
तत्रेति । तत्र = योगाऽन्ते शैलेश्यवस्थायां अयोगाद् = अव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां (=भवोपग्राहिकर्मणां ) क्षयं कृत्वा उच्चैः = लोकान्ते परमानन्दमन्दिरं प्रयाति ||३२||
।। इति सदृष्टिद्वात्रिंशिका ||२४||
।। अथ क्लेशहानोपायद्वात्रिंशिका ।। २५ ।।
सदृष्टिनिरूपणाऽनन्तरं ज्ञानक्रियामिश्रतयैवैताः क्लेशहानोपायभूता भवन्ति नाऽन्यथेति
विवेचयन्नाह
ज्ञानं च सदनुष्ठानं सम्यक् सिद्धान्तवेदिनः । क्लेशानां कर्मरूपाणां हानोपायं प्रचक्षते ॥१॥
ज्ञानं चेति । सज्ज्ञानं सदनुष्ठानं च सम्यग् = अवैपरीत्येन सिद्धान्तवेदिनः कर्मरूपाणां क्लेशानां हानोपायं = त्यागसामग्रीं प्रचक्षते = प्रकथयन्ति “संजोगसिद्धीइ फलं वयंति' ( आवश्यक निर्युक्ति १०२ ) इत्यादिग्रन्थेन || १ ||
नैरात्म्यदर्शनादन्ये निबन्धनवियोगतः ।
१. हस्तादर्शे ' प्रसात्यु....' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।।४३० ।।
www.jainelibrary.org