SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 'क्लेशप्रहाणमिच्छन्ति सर्वथा तर्कवादिनः ॥२॥ नैरात्म्येति । नैरात्म्यदर्शनात् = सर्वत्रैवात्माऽभावाऽवलोकनात् अन्ये = बौद्धा || निबन्धनवियोगतो = निमित्तविरहात् क्लेशप्रहाणं = तृष्णाहानिलक्षणं इच्छन्ति सर्वथा = सर्वैः प्रकारैः तर्कवादिनः, न तु शास्त्राऽनुसारिणः ।।२।। एते एव स्वमतं पुरस्कर्तुमाहुः समाधिराज एतच्च तदेतत्तत्त्वदर्शनम् । आग्रहच्छेदकार्येतत्तदेतदमृतं परम् ॥३॥ ___ समाधिराज इति । समाधिराजः सर्वयोगाऽग्रेसरत्वात् एतच्च = नैरात्म्यदर्शनम् । तदेतत्तत्त्वदर्शनं परमार्थाऽवलोकनतः, आग्रहच्छेदकारि = मूर्छाविच्छेदकं एतत्, तदेतदमृतं = पीयूषं परं = भावरूपम् ।।३।। जन्मयोनिर्यतस्तृष्णा ध्रुवा सा चाऽऽत्मदर्शने । तदभावे च नेयं स्याद् बीजाऽभाव इवाऽङ्कुरः ।।४।। जन्मेति। यद् (? यतः) = यस्मात् तृष्णा लोभलक्षणा जन्मयोनिः पुनर्भवहेतुः । ॥ ध्रुवा = निश्चिता सा च = तृष्णा आत्मदर्शने = अहमस्मीति निरीक्षणरूपे । तदभावे २५/४11 = आत्मदर्शनाऽभावे च । नेयं = तृष्णा स्यात् । अङ्कुर इव बीजाऽभावे ।।४।। ।।४३१।। न ह्यपश्यन्नहमिति स्निह्यत्यात्मनि कश्चन । । १. हस्तादर्श 'क्लेशहाण' इति त्रुटितः पाठः । २. मुद्रितप्रती - (अ) त - इत्यशुद्धः पाठः । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy