SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श he F who d d हा पा य द्वा त्रिं शि का २५/७ Jain Education International न चाssत्मनि विना प्रेम्णा सुखहेतुषु धावति ।।५।। = न हीति । न नैव हिः = यस्मात् अपश्यन् = अनिरीक्षमाणः अहमिति उल्लेखेन स्निह्यति = स्नेहवान् भवति आत्मनि विषयभूते कश्चन = बुद्धिमान् । न चात्मनि प्रेम्णा' विना सुखहेतुषु धावत प्रवर्तते कश्चन । तस्मादात्मदर्शनस्य वैराग्यप्रतिपन्थित्वाद् नैरात्म्यदर्शनमेव मुक्तिहेतुरिति सिद्धम् ।। ५ ।। एतद्दूषयतिनैरात्म्याऽयोगतो नैतदभाव- क्षणिकत्वयोः । = आद्यपक्षेऽविचार्यत्वाद्धर्माणां धर्मिणं विना ॥६॥ नैरात्म्येति । एतत् = अन्येषां मतं न युक्तम् । अभाव- क्षणिकत्वयोः 'अर्थादात्मनो विकल्प्य ́मानयोः सतोः नैरात्म्याऽयोगतः । आद्यपक्षे = आत्मनोऽभावपक्षे धर्मिणम् = आत्मानं विना धर्माणां = सदनुष्ठान-मोक्षादीनाम् अविचार्यत्वात् = विचाराऽयोग्यत्वात् । न हि वन्ध्यासुताऽभावे तद्गतान् सुरूप- कुरूपत्वादीन् विशेषांश्चिन्तयितुमारभते कश्चिदिति ।।६।। "वक्त्राद्यभावतश्चैव कुमारीसुतबुद्धि । विकल्पस्याऽप्यशक्यत्वाद्वक्तुं वस्तु विना स्थितम् ॥७॥ १. हस्तादर्श 'प्रेम्भा' इत्यशुद्धः पाठः । २ हस्तादर्शे 'वैराग्यदर्शनमेव...' इति त्रुटितः पाठः । ३. 'अर्थादात्मना ' इति मुद्रितप्रतावशुद्धः पाठः । ४. 'विकल्पमा..' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. मुद्रितप्रतौ 'वक्रादीनां' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।४३२ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy