SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ श he F who d d हा पा य द्वा त्रिं शि का २५/७ Jain Education International न चाssत्मनि विना प्रेम्णा सुखहेतुषु धावति ।।५।। = न हीति । न नैव हिः = यस्मात् अपश्यन् = अनिरीक्षमाणः अहमिति उल्लेखेन स्निह्यति = स्नेहवान् भवति आत्मनि विषयभूते कश्चन = बुद्धिमान् । न चात्मनि प्रेम्णा' विना सुखहेतुषु धावत प्रवर्तते कश्चन । तस्मादात्मदर्शनस्य वैराग्यप्रतिपन्थित्वाद् नैरात्म्यदर्शनमेव मुक्तिहेतुरिति सिद्धम् ।। ५ ।। एतद्दूषयतिनैरात्म्याऽयोगतो नैतदभाव- क्षणिकत्वयोः । = आद्यपक्षेऽविचार्यत्वाद्धर्माणां धर्मिणं विना ॥६॥ नैरात्म्येति । एतत् = अन्येषां मतं न युक्तम् । अभाव- क्षणिकत्वयोः 'अर्थादात्मनो विकल्प्य ́मानयोः सतोः नैरात्म्याऽयोगतः । आद्यपक्षे = आत्मनोऽभावपक्षे धर्मिणम् = आत्मानं विना धर्माणां = सदनुष्ठान-मोक्षादीनाम् अविचार्यत्वात् = विचाराऽयोग्यत्वात् । न हि वन्ध्यासुताऽभावे तद्गतान् सुरूप- कुरूपत्वादीन् विशेषांश्चिन्तयितुमारभते कश्चिदिति ।।६।। "वक्त्राद्यभावतश्चैव कुमारीसुतबुद्धि । विकल्पस्याऽप्यशक्यत्वाद्वक्तुं वस्तु विना स्थितम् ॥७॥ १. हस्तादर्श 'प्रेम्भा' इत्यशुद्धः पाठः । २ हस्तादर्शे 'वैराग्यदर्शनमेव...' इति त्रुटितः पाठः । ३. 'अर्थादात्मना ' इति मुद्रितप्रतावशुद्धः पाठः । ४. 'विकल्पमा..' इत्यशुद्धः पाठो मुद्रितप्रतौ । ५. मुद्रितप्रतौ 'वक्रादीनां' इत्यशुद्धः पाठः । For Private & Personal Use Only ।।४३२ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy