________________
he Fs
वक्त्रादीति । वक्त्रादीनां नैरात्म्यप्रतिपादकतद्रष्ट्रादीनामभावतः (= वक्त्राद्यभावतः) चैव । आद्यपक्षे नैरात्म्याऽयोगतो नैतदिति सम्बन्धः । ज्ञानवादिमते त्वाह= अकृत-विवाहस्त्रीपुत्रज्ञानवत् विकल्पस्याऽपि = प्रतिपादकादिगतस्य स्थितं वस्तु विना वक्तुमशक्यत्वात् । कुमारीसुतबुद्धिरपि हि प्रसिद्धयोः कुमारी-सुतपदार्थयोः सम्बन्धमेवाऽऽरोपितमवगाहते । प्रकृते त्वात्मन एवाऽभावात्तत्प्रतिपादकादिव्यपदेशो निर्मूल एव, क्वचित्प्रमितस्यैव क्वचिदारोप्यत्वात । ____ इत्थं च- “यथा कुमारी स्वप्नान्तरेऽस्मिन् जातं च पुत्रं विगतं च पश्येत् । जाते च हृष्टाऽपगते विषण्णा तथोपमान् जानत सर्वधर्मान् ।।" ( ) इत्यादि परेषां शास्त्रमपि संसाराऽसारताऽर्थवादमात्र-परत यैवोपयुज्यते इति द्रष्टव्यम् ।।७।।
द्वितीयेऽपि क्षणादूर्ध्वं नाशादन्याऽप्रसिद्धितः ।
अन्यथोत्तरकार्याङ्गभावाऽविच्छेदतोऽन्वयात् ।।८।। द्वितीयेऽपीति । द्वितीयेऽपि पक्षे नैरात्म्याऽयोगतो नैतदिति सम्बन्धः । क्षणादूर्ध्व क्षणिकस्याऽऽत्मनो नाशात् अन्यस्याऽनन्तरक्षणस्याऽप्रसिद्धितः (=अन्याऽप्रसिद्धितः) आत्माश्रयाऽनुष्ठानफलाद्यनुपपत्तेः । अन्यथा = भावादेव भावाऽभ्युपगमे उत्तरकार्यं प्रत्यङ्गभावेन = परिणामिभावेन अविच्छेदतः (=उत्तरकार्यागभावाऽविच्छेदतः) अन्वयात् = १. हस्तादर्श ....मात्रपरय...' इति त्रुटितोऽशुद्धश्च पाठः ।
२५/८
।।४३३।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org