SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ The EF पूर्वक्षणस्यैव कथञ्चिदभावीभूतस्य तथापरिणमने क्षणद्वयाऽनुवृत्तिध्रौव्यात् । सर्वथाऽसतः खरविषाणादेरिवोत्तरभावपरिणमनशक्त्यभावात् सदृशक्षणान्तरसामग्रीसम्पत्तेः 'अतियोग्यताऽवच्छिन्नशक्त्यैवोपपत्तेरिति ।।८।। किं च क्षणिको ह्यात्माऽभ्युपगम्यमानः स्वनिवृत्तिस्वभावः स्यात्, उताऽन्यजननस्वभावः, उताहो उभयस्वभावः ? इति त्रयी गतिः, तत्राऽऽद्यपक्षे आह स्वनिवृत्तिस्वभावत्वे न क्षणस्याऽपरोदयः । अन्यजन्मस्वभावत्वे स्वनिवृत्तिरसङ्गता ।।९।। ___ स्वनिवृत्तीति । स्वनिवृत्तिस्वभावत्वे क्षणस्य = आत्मक्षणस्य अभ्युपगम्यमाने न अपरोदयः = सदृशोत्तरक्षणोत्पादः स्यात्, पूर्वक्षणस्योत्तरक्षणजननाऽस्वभावत्वात् । द्वितीये त्वाह- अन्यजन्मस्वभावत्वे = सदृशाऽपरक्षणोत्पादकस्वभावत्वे स्वनिवृत्तिरसङ्गता, तदजननस्वभावत्वादेव ।।९।। तृतीये त्वाह उभयैकस्वभावत्वे न विरुद्धोऽन्वयोऽपि हि । न च त तुकः स्नेहः किं तु कर्मोदयोद्भवः ।।१०।। उभयेति । उभयैकस्वभावत्वे = स्वनिवृत्ति-सदृशाऽपरक्षणोभयजननैकस्वभावत्वे अन्वयोऽपि १. हस्तादर्श 'रवियो...' इत्यशुद्धः पाठः । २. हस्तादर्श अत्र 'निवृत्तीति' इत्यधिक: पाठः सम्पातायातः । ३. हस्तादर्श 'उभयेति' इति नास्ति । २५/१० ४३४।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy