________________
क्ले
श
हा
hot 5 ho to
पा
य
द्वा
त्रिं
शि
का
२५/११
Jain Education International
हि न विरुद्धः । यदेव किञ्चिन्निवर्तते तदेवाऽपरक्षणजननस्वभावमिति शब्दार्थाऽन्यथानुपपत्त्यैवाऽन्वयसिद्धेः, उक्तोभयैकस्वभावत्ववत्पूर्वाऽपरकालसम्बन्धैकस्वभावत्वस्याऽप्यविरोधात् ।
इत्थमेव प्रत्यभिज्ञा-क्रियाफलसामानाधिकरण्यादीनां निरुपचरितानामुपपत्तेरिति निर्लोठितमन्यत्र । न च तद्धेतुकः = आत्मदर्शनहेतुकः स्नेहः किं तु कर्मोदयोद्भवो = मोहनीयकर्मोदयनिमित्तकः । अतो नाऽयमात्मदर्शनाऽपराध इति भावः || १० || ननु यद्यप्यात्मदर्शनमात्रनिमित्तको न स्नेहः, क्षणिकस्याप्यात्मनः स्वसंवेदनप्रत्यक्षेण समवलोकनात्तदुद्भवप्रसङ्गात् किं तु ध्रुवाऽऽत्मदर्शनतो नियत एव स्नेहोद्भवस्तद्गताऽऽगामिकालसुख-दुःखाऽवाप्तिपरिहारचिन्ताऽऽवश्यकत्वादित्यत्राह
ध्रुवेक्षणेऽपि न प्रेम, निवृत्तमनुपप्लवात् ।
ग्राह्याssकार इव ज्ञानेऽन्यथा तत्राऽपि तद् भवेत् ।। ११ ।। ध्रुवेक्षणेऽपीति । ध्रुवेक्षणेऽपि = ध्रुवात्मदर्शनेऽपि न प्रेम समुत्पत्तुमुत्सहते, निवृत्तं उपरतं 'अनुपप्लवात् = संक्लेशक्षयात् विसभागपरिक्षयाऽभिधानात् ज्ञाने ग्राह्याऽऽकार इव भवन्मते । उपप्लववशाद्धि तत्र तदवभासस्तदभावे तु तन्निवृत्तिरिति । तथा च सिद्धान्तो वः- “ग्राह्यं न तस्य ग्रहणं न तेन ज्ञानान्तरग्राह्यतयाऽपि शून्यम् ।
तथापि च ज्ञानमयः प्रकाशः, प्रत्यक्षरूपस्य तथाविरासीत् ।। " ( ) इति । ... चिह्नद्वमध्यवर्ती पाठो हस्तादर्शे नास्ति ।
१. मुद्रितप्रती 'उपप्ल...' इत्यशुद्धः पाठः ।
=
For Private & Personal Use Only
।।४३५।।
www.jainelibrary.org