SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ The Fodh अन्यथा = उपप्लवं विनाऽपि ध्रुवाऽऽत्मदर्शनेन प्रेमोत्पत्त्यभ्युपगमे तत्राऽपि त्वन्मतप्रसिद्धाऽऽत्मन्यपि तत् = प्रेम भवेत्, आत्मदर्शनमात्रस्यैव लाघवेन प्रेमहेतुत्वात् । 'ध्रुवत्वभानमेव मोहादिति तु स्ववासनामात्रमिति न किञ्चिदेतत् ।।११।। विवेकख्यातिरुच्छेत्री क्लेशानामनुपप्लवा' । सप्तधा प्रान्तभूप्रज्ञा कार्यचित्तविमुक्तिभिः ।।१२।। विवेकेति । विवेकख्यातिः = प्रतिपक्षभावनाबलादविद्याप्रविलये विनिवृत्तज्ञातृत्वकर्तृत्वाऽभिमानाया रजस्तमोमलाऽनभिभूताया बुद्धेरन्तर्मुखायाश्चिच्छायासंक्रान्तिः अनुपप्लवा = अन्तराऽन्तरा व्युत्थानरहिता क्लेशानां उच्छेत्री। यदाह- "विवेकख्यातिरविप्लवा हानोपायः" (योगसूत्र-२-२६)। ___ सा च सप्तधा = सप्तप्रकारैः प्रान्तभूप्रज्ञा = सकलसालम्बनसमाधिपर्यन्तभूमिधीभवति कार्यचित्तविमुक्तिभिः चतुस्त्रिप्रकाराभिः । तत्र (१) 'न मे ज्ञातव्यं किञ्चिदस्ति, (२) क्षीणा मे क्लेशाः, न मे क्षेतव्यं किञ्चिदस्ति, (३) अधिगतं मया 'ज्ञानं, (४) 'प्राप्ता विवेकख्याति'रिति कार्यविषयनिर्मलज्ञानरूपाश्चतस्रः कार्यविमुक्तयः ।। ||४३६।। २५/१२ १. मुद्रितप्रतौ 'ध्रुवत्वभावनमेव...' इत्यशुद्धः पाठः । २. हस्तादर्श ....पलवा' इत्यशुद्धः पाठः । ३. मुद्रितप्रतौ "...गतं(ता) मया हानप्राप्तविवेक...” इत्यशुद्धः पाठः । ४. हस्तादर्शऽपि ....हानप्राप्ता...' इत्यशुद्धः पाठः । राजमार्तण्डानुसारेणास्माभिरत्राऽपेक्षितः पाठो योजितः । ५. हस्तादर्शन्तरे 'हानध्वमाविवे...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy