SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ (१) 'चरितार्था मे बुद्धिः', गुणाः हृताऽधिकारा मोहबीजाऽभावात् कुतोऽमीषां प्ररोहः?, (२) सात्मीभूतश्च मे समाधिरिति, (३) स्वरूपप्रतिष्ठोऽहमिति गुणविषयज्ञानरूपास्तिस्रः चित्तविमुक्तय इति । तदिदमुक्तं- "तस्य सप्तधा प्रान्तभू(मिः)प्रज्ञेति" (योगसूत्र २-२७) ।।१२॥ बलान्नश्यत्यविद्याऽस्या उत्तरेषामियं पुनः । प्रसुप्त-तनु-विच्छिन्नोदाराणां क्षेत्रमिष्यते ॥१३॥ बलादिति । अस्याः = विवेकख्यातेः बलादविद्या नश्यति । इयम् = अविद्या पुनरुत्तरेषाम् = अस्मितादीनां क्लेशानां प्रसुप्त-तनु-विच्छिन्नोदाराणां क्षेत्रमिष्यते । तदुक्तं'अविद्या क्षेत्रमुत्तरेषां प्रसुप्त-तनु-विच्छिन्नोदाराणामिति" (योगसूत्र २-४) ।।१३।। . स्वकार्यं नाऽऽरभन्ते ये चित्तभूमौ स्थिता अपि । विना प्रबोधकबलं ते प्रसुप्ताः शिशोरिव ।।१४।। स्वकार्यमिति। ये = क्लेशाः चित्तभूमौ स्थिता अपि स्वकार्यं नाऽऽरभन्ते विना (प्रबोधकबलं =) प्रबोधकस्योद्बोधकस्य बलं = उद्रेकं ते = क्लेशाः प्रसुप्ताः शिशोरिव = बालकस्येव ।।१४।। १. मुद्रितप्रतौ 'बुद्धिगुणा...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ हस्तादर्श च 'बुद्धिगुणाः कृताधिकारा' इत्यशुद्धः | पाठः । अस्माभिस्तु राजमार्तण्डानुसारेणाऽपेक्षितः पाठो योजितः। ३. हस्तादर्श 'कार्यवि....' इत्यशुद्धः पाठः । 11४३७॥ २५/१४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy