________________
भावनात्प्रतिपक्षस्य शिथिलीकृतशक्तयः ।
तनवोऽतिबलाऽपेक्षा योगाऽभ्यासवतो यथा ।।१५।। भावनादिति । भावनात् = अभ्यासात् प्रतिपक्षस्य = स्वविरोधि परिणामलक्षणस्य शिथिलीकृता कार्यसम्पादनं प्रति शक्तिर्येषां ते (=शिथिलीकृतशक्तयः) तथा, तनवो = वासनाऽवरोधतया चेतस्यवस्थिताः, न तु बालस्येवाऽनवरुद्धवासनात्मना। अतिबलाऽपेक्षाः = स्वकार्याऽऽरम्भे प्रभूतसामग्रीसापेक्षाः, न तूद्बोधकमात्राऽपेक्षाः । योगाऽभ्यासवतो यथा रागादयः क्लेशाः ।।१५।।
अन्येनोच्चैर्बलवताऽभिभूतस्वीयशक्तयः ।
तिष्ठन्तो हन्त विच्छिन्ना रागो द्वेषोदये यथा ॥१६।। __ अन्येनेति । अन्येन = स्वाऽतिरिक्तेन उच्चैर्बलवता = अतिशतियबलेन क्लेशेन । अभिभूतस्वीयशक्तयस्तिष्ठन्तो हन्त विच्छिन्नाः क्लेशा उच्यन्ते यथा रागो द्वेषोदये । न
॥ हि राग-द्वेषयोः परस्परविरुद्धयोर्युगपत्सम्भवोऽस्तीति ।।१६।। का
सर्वेषां सन्निधिं प्राप्ता उदाराः सहकारिणाम् । २५/१७
निवर्तयन्तः स्वं कार्यं यथा व्युत्थानवर्तिनः ॥१७॥ सर्वेषामिति । सर्वेषां सहकारिणां सन्निधिं = सन्निकर्ष प्राप्ताः स्वं कार्यं निवर्तयन्त १. मुद्रितप्रतिषु- 'स्वविरोधप...' इति पाठः । २. हस्तादर्श 'अशिय...' इत्यशुद्धः पाठः ।
४३८॥
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org