________________
।। उदारा उच्यन्ते । यथा व्युत्थानवर्तिनो' = योगप्रतिपन्थिदशाऽवस्थिताः ।।१७।।
अविद्या चाऽस्मिता चैव रागद्वेषो तथाऽपरौ ।
पञ्चमोऽभिनिवेशश्च क्लेशा एते प्रकीर्तिताः ॥१८॥ अविद्या चेति । क्लेशानां विभागोऽयम् । तदुक्तं- “अविद्याऽस्मिता-राग-द्वेषाऽभि| निवेशाः क्लेशा इति” (योगसूत्र २-३) ।।१८।।
विपर्यासाऽऽत्मिकाऽविद्याऽस्मिता दृग्दर्शनैकता ।
रागस्तृष्णा सुखोपाये द्वेषो दुःखाऽङ्गनिन्दनम् ।।१९।। विपर्यासाऽऽत्मिकेति। विपर्यासः = अतस्मिंस्तद्ग्रहः२ तदात्मिका (=विपर्यासाऽऽत्मिका) अविद्या । यथाऽनित्येषु घटादिषु नित्यत्वस्य, अशुचिषु कायादिषु शुचित्वस्य, दुःखेषु विषयेषु सुखरूपस्य, अनात्मनि च शरीरादावात्मत्वस्य अभिमानः । तदुक्तं“अनित्याऽशुचि-दुःखाऽनात्मसु नित्य-शुचि-सुखात्मख्यातिरविद्येति” (योगसूत्र २-५)।
दृग्दर्शनयोः = पुरुषरजस्तमोऽनभिभूतसात्त्विकपरिणामयोः भोक्तृभोग्यत्वेनाऽवस्थितयोरेकता
(=दृग्दर्शनैकता) = अस्मिता । तदुक्तं-• "दृग्दर्शनशक्त्योरेकात्मते वाऽस्मिता" (योगसूत्र २५/१९)
१. हस्तादर्श'...नुवर्तिन' इत्यशुद्धः पाठः । २. हस्तादर्श 'तहः' इत्यशुद्धः त्रुटितश्च पाठः । ३. मुद्रितप्रतौ ...त्मतैवाऽस्मिता' इत्यशुद्धः पाठः । ४, हस्तादर्श '...स्मिते' इत्यशुद्धः पाठः । ..... चिनिद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
।।।४३९।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org