________________
सुखोपाये = सुखसाधने तृष्णा सुखज्ञस्य सुखानुस्मृतिपूर्वो लोभपरिणामः = रागः। तदुक्तं 'सुखानुशयी रागः' (योगसूत्र २/७) इति । दुःखाङ्गानां = दुःखकारणानां निन्दनं = दुःखाऽभिज्ञस्य तदनुस्मृतिपूर्वकं विगर्हणं (=दुःखाऽङ्गनिन्दन) = द्वेषः । यत उक्तं- "दुःखानुशयी द्वेषः” इति (योगसूत्र २-८) ।।१९।।
विदुषोऽपि तथारूढः सदा स्वरसवृत्तिकः ।
शरीराद्यवियोगस्याऽभिनिवेशोऽभिलाषतः ॥२०॥ विदुषोऽपीति । विदुषोऽपि = पण्डितस्याऽपि तथारूढः = पूर्वजन्माऽनुभूतमरणदुःखाऽनुभववासनाबलाद् भयरूपः समुपजायमानः शरीरादीनामवियोगस्य (=शरीराद्यवियोगस्य) अभिलाषतः 'शरीरादिवियोगो मे मा भूदि'त्येवंलक्षणात् अभिनिवेशो भवति । सदा = निरन्तरं स्वरसवृत्तिकः = अनिच्छाऽधीनप्रवृत्तिकः । तदुक्तं- “स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः” इति (योगसूत्र २-९) ।।२०।।
एभ्यः कर्माशयो दृष्टाऽदृष्टजन्माऽनुभूतिभाक् ।
तद्विपाकश्च जात्यायु गाऽऽख्यः सम्प्रवर्तते ।।२१॥ एभ्य इति । एभ्यः = उक्तेभ्योऽविद्यादिभ्यः क्लेशेभ्यः कर्माशयो भवति । दृष्टाऽदृष्टजन्म- १. मुद्रितप्रतौ 'दुःखाभाव...' इत्यशुद्धः पाठः । २. मुद्रिप्तप्रतौ हस्तादर्श च '.बलाद्भूयः समु...' इत्यशुद्धः पाठः । परं स चाशुद्धः । अस्माभिः राजमार्तण्डानुसारेणाऽत्राऽपेक्षितः पाठो योजितः । ३. हस्तादर्श 'कर्माऽप्रिये' इत्यशुद्धः पाठः ।
को
२५/२१॥
४४० ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org