________________
।। नोरनुभूति' भजति यः स (= दृष्टाऽदृष्टजन्मानुभूतिभाक्) तथा, तद्विपाकः = कर्मविपाकः || च जात्यायु गाख्यः सम्प्रवर्तते निरूपिततत्त्वमेतत् ।।२१।।
परिणामाच्च तापाच्च संस्काराद् द्विविधोऽप्ययम् ।
गुणवृत्तिविरोधाच्च हन्त दुःखमयः स्मृतः ॥२२॥ परिणामाच्चेति । अयं कर्मविपाको दुःखाऽऽलादफलत्वेन द्विविधोऽपि 'ते लादपरितापफला' (योगसूत्र २-१४) इत्यत्र तच्छब्दपरामृष्टानां जात्यायु गानां द्वैविध्यश्रवणात् ।
परिणामाच्च = यथोत्तरं गर्भाऽभिवृद्धस्तदप्राप्ति कृतदुःखाऽपरिहारलक्षणाद् दुःखान्तरजननलक्षणाच्च ।
तापाच्च उपभुज्यमानेषु सुखसाधनेषु सुखाऽनुभवकालेऽपि सदावस्थिततत्प्रतिपन्थिद्वेषलक्षणात् । संस्कारात् च अभिमताऽनभिमतविषयसन्निधाने सुख-दुःखसंविदोरुपजायमानयोः स्वक्षेत्रे तथाविधसंस्कारतथाविधाऽनुभवपरम्परया संस्काराऽनुच्छेदलक्षणात् ।।
गुणवृत्तिविरोधाच्च गुणानां = सत्त्वरजस्तमसां वृत्तीनां = सुख-दुःख-मोहरूपाणां परस्पराऽभिभाव्याऽभिभावकत्वेन विरुद्धानां जायमानानां सर्वत्रैव दुःखाऽनुवेधाच्चेत्यर्थः ।
हन्त दुःखमयो = दुःखै-कस्वभावः स्मृतः । तदुक्तं “परिणाम-ताप-संस्कार-दुःखैर्गुणवृत्तिविरोधाच्च २५/२२
स्कारदुःखगुणवत्तीवराधाच्च ।।।।४४१।। दुःखमेव सर्वं विवेकिनः” इति (योगसूत्र २-१५) ।।२२।। १. हस्तादर्श ....नुभूमिं' इत्यशुद्धः पाठः । २. हस्तादर्श 'प्राप्तित्तदुः' इत्यशुद्धः पाठः ।
Pho OFFod
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org