SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ The EFF इत्थं दृग्दृश्ययोगात्माऽऽविद्यको भवविप्लवः ।। नाशान्नश्यत्यविद्याया इति पातञ्जला जगुः ॥२३॥ इत्थमिति । इत्थं दुःखरूपो दृगदृश्ययोः = पुरुष-बुद्धितत्त्वयोर्योगो = विवेकाऽख्यातिपूर्वकः संयोग आत्मा = कारणं यस्य स (=दृग्दृश्ययोगात्मा) तथा आविद्यको = अविद्यारचितः भवविप्लवः = संसारप्रपञ्चो अविद्याया' नाशानश्यति। अविद्यानाशात्स्वकार्यदृग्दृश्यसंयोगनाशे तत्कार्यभवप्रपञ्चनाशोपपत्तेः इति पातञ्जला जगुः = भणितवन्तः ।।२३।। एतद् दूषयति- 'नैतत्साध्वपुमर्थत्वात् पुंसः कैवल्यसंस्थितेः । क्लेशाऽभावेन संयोगाऽजन्मोच्छेदो हि गीयते।।२४।। 'नैतदिति । न एतत् = पातञ्जलमतं साधु = न्याय्यं, पुंसः कैवल्यसंस्थितेः सदातनत्वेन अपुमर्थत्वात् = पुरुषप्रयत्नाऽसाध्यत्वात् । हि = यतः क्लेशाऽभावेन संयोगस्याऽऽविद्यकस्य स्वयमेव निवृत्तस्य अजन्म = अनुत्पादः (=संयोगाजन्म) उच्छेदः गीयते । तदेव च पुरुषस्य कैवल्यं "व्यपदिश्यत इति न पुनर्मूर्तद्रव्यवत्संयोगपरित्यागोऽस्य युज्यते, कूटस्थत्व१. हस्तादर्श 'अविद्यानाशा..' इति पाठः । स च शुद्धोऽपि मूलानुसारेणाऽनुचितत्वादत्र न गृहीतः । २. हस्तादर्श 'एतद्' इति पदं नास्ति । हस्तादर्शान्तरे 'तद्' इति पाठः । ३. हस्तादर्श 'नैताभा' इत्यशुद्धः पाठः । ४. हस्तादर्श 'संयमा' इत्यशुद्धः पाठः । ५. हस्तादर्श 'नैतदिति' इति नास्ति । ६. हस्तादर्श 'उच्छेदा' इत्यशुद्धः पाठः । ७. हस्तादर्श 'विश्यते' इति त्रुटितः पाठः । हस्तादर्शान्तरे च 'विषदिश्यते' इत्यशुद्धः पाठः । ।।४४२॥ २५/२४ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy