________________
।। हानिप्रसङ्गात् इति हि परसिद्धान्तः । तदुक्तं- “तदभावात्संयोगाऽभावो हानमिति" (योगसूत्र | २-२५) ।।२४।। एतदेवाऽऽह
तात्त्विको नाऽऽत्मनो योगो ह्येकान्ताऽपरिणामिनः ।
कल्पनामात्रमेवं च क्लेशास्तद्धानमप्यहो ।॥२५॥ __तात्त्विक इति । तात्त्विकः = 'पारमार्थिको नाऽऽत्मनो हि योगः = सम्बन्ध एकान्ताऽपरिणामिनः सतो युज्यते । एवं च आहो ! इत्याश्चर्ये क्लेशास्तद्धानमपि कल्पनामात्रम । उपचरितस्य भवप्रपञ्चस्य प्रकतिगतत्वं विनाऽपि अविद्यामात्रनिर्मितत्वेन बौद्धनयेन वेदान्तिनयेनाऽपि च वक्तुं शक्यत्वात्, मुख्याऽर्थस्य च भवन्मतनीत्याऽद्याप्यसिद्धत्वादित्यर्थः ।।२५।। काल्पनिकत्वेनैवैतन्मतं, अन्यदपीत्थं दूषयन्नाह
नृपस्येवाऽभिधानाद्यः सातबन्धः प्रकीर्तितः । ___ अहिशङ्काविषज्ञानाच्चेतरोऽसौ निरर्थकः ।।२६।। नृपस्येति । नृपस्येव = तथाविधनरपतेरिव अभिधानाद् = 'राजाऽयमिति भणनरूपाद्
यः सातबन्धः = सुखसम्बन्धरूपः प्रकीर्तितः नित्येऽप्यात्मनि परैः । अहिनाऽदष्टस्याऽपि २५/२६ तथाविधप्रघट्टकवशाद् अहिशङ्काविषज्ञानाच्चेतरः = असातबन्धः । असौ निरर्थकः, कल्प
१. हस्तादर्श 'पारिष्यार्थिको' इति पाठः । हस्तादर्शान्तरे 'पारिध्यार्थ' इत्यशुद्धः पाठः । २. हस्तादर्श .....नाद् स्यायः' इत्यशुद्धः पाठः ।
।।४४३।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org