SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ The Fb कक नामात्रस्याऽर्थाऽसाधकत्वादेव । ___ अथ प्रकृतौ कर्तृत्व-भोक्तृत्वाऽभिमानोपवर्णनमात्रमेतत्, तन्निरासार्थमेव च सकलशास्त्रार्थोपयोग इति को दोषः ? तत्त्वार्थसिद्ध्यर्थमुपचाराऽऽश्रयणस्याऽपि अदुष्टत्वादिति चेत् ? न, तत्त्वार्थस्यैवाऽऽत्मनश्चिद्रूपत्वे मुक्त्यवस्थायां विषयपरिच्छेदकत्वस्याऽप्यापत्तेः, ज्ञानस्य ज्ञानत्ववत्सविषयकत्वस्याऽपि स्वभावत्वात्, अन्तःकरणाऽभावेऽर्थपरिच्छेदाऽभावस्य च निरावरणज्ञाने तस्याऽहेतुत्वेन वक्तुमशक्यत्वात् । दिदृक्षाऽभावेऽपि दर्शनाऽनिवृत्तेः, प्राकृताऽप्राकृतज्ञानयोः सविषयकत्वाऽविषयकत्वस्वभावभेदकल्पनस्य चाऽन्याय्यत्वात् । आत्मचैतन्येऽविषयकत्व स्वाभाव्य वत्सविषयकत्वस्वाभाव्यकल्पने बाधकाऽभावात् । किञ्च विवेकाऽख्यातिरूपसंयोगाऽभावोऽपि विवेकख्यातिरूप एवेति विषयग्राहकचैतन्यस्य स्वतन्त्रनीत्यैवोपपत्तेः मुक्तावपि निर्विषयचिन्मात्रतत्त्वार्थाऽसिद्धिः । तदुक्तं हरिभद्राचार्यैः"आत्मदर्शनतश्च स्यान्मुक्तिर्यत्तन्त्रनीतितः । तदस्य ज्ञानसद्भावस्तन्त्रयुक्त्यैव साधितः ।।" (योगबिन्दु ४५७) इति । ननु विवेकख्यातिरपि अन्तःकरणधर्म एव, तस्मिंश्च प्रकृतौ प्रविलीने न तद्धर्मस्थित्य१. मुद्रितप्रती '...कत्वस्वभा...' इत्यशुद्धः पाठः । २. हस्तादर्श '...भाव्यकल्पने' इति त्रुटितः पाठः । का । ४४४॥ २५/२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy