SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ ।। वकाशः, न चैवं संयोगोन्मज्जनप्रसङ्गः, परेषां घटविलयदशायां घटप्रागभावाऽनुन्मज्जनव दुपपत्तेः । ___ इत्थं च प्रकृतेरेव तत्त्वतः संयोगहानं, आत्मनस्तूपचारादिति नाऽस्माकमयमुपालम्भः शोभत इति चेत् ? न, उपचारस्याऽपि सम्बन्धाऽविनाभावस्याऽऽश्रयणे चिन्मात्रधर्मकत्वत्यागात्, सर्वज्ञत्वस्वभावपरित्यागस्य स्ववासनामावविजृम्भितत्वादित्याचार्याणामाशयात् ।।२६।। पुरुषार्थाय दुःखेऽपि प्रवृत्तेर्ज्ञानदीपतः । हानं चरमदुःखस्य क्लेशस्येति तु तार्किकाः ॥२७।। पुरुषार्थायेति । ज्ञानदीपतः = तत्त्वज्ञानप्रदीपादज्ञानध्वान्तनाशात् पुरुषार्थाय = पुरुषार्थनिमित्तं दुःखेऽपि प्रवृत्तेः, राजसेवादौ तथादर्शनात् । चरमदुःखस्य क्लेशस्य स्वयमुत्पादितस्य हानमिति तु तार्किकाः = नैयायिकाः । अतीतस्य स्वत एवोपरतत्वात्, अनागतस्य हातुमशक्यत्वात्, वर्तमानस्याऽपि विरोधिगुणप्रादुर्भावेनैव नाशात् । चरमदुःखमुत्पाद्य तन्नाशस्यैव पुरुषार्थत्वादिति भावः ।।२७।। एतदपि मतं दूषयति ब्रूते हन्त विना कश्चिददोऽपि न मदोद्धतम् ।। २५/२८ सुखं विना न दुःखार्थं कृतकृत्यस्य हि श्रमः।।२८।। १. हस्तादर्श ...भावो नैव...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'पुरुषार्थक....' इति अधिकः पाठः । ३. हस्तादर्श 'ददापि' इत्यशुद्धः पाठः ।। The EFF ।।४४५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy