________________
ब्रूत इति । (हन्त !) अदोऽपि वचनं मदोद्धतं विना 'कश्चिद्'इत्यनन्तरमपेर्गम्यमानत्वात् कश्चिदपि न ब्रूते । हि = यतः कृतकृत्यस्य सुखं विना = स्वसुखाऽतिशयितसुखं विना दुःखार्थं श्रमो न अस्ति । राजसेवादावपि हि सुखार्थं प्रवृत्तिर्दृश्यते । ___ कटुकौषधपानादावपि आगामिसुखाऽऽशयैव । अन्यथा विवेकिनो दुःखजिहासोमरणादावपि प्रवृत्त्यापत्तेः, न च मोक्षे सुखमिष्यते भवद्भिरिति व्यर्थः सर्वः प्रयासः ।।२८।। ___किं च चरमदुःखत्वं तत्त्वज्ञानजन्यताऽवच्छेदकमपि न सम्भवतीत्याह
चरमत्वं च दुःखत्वव्याप्या जातिर्न जातितः ।
'तच्छरीरप्रयोज्यातः साङ्कर्यान्नाऽन्यदर्थवत् ।।२९।। चरमत्वं चेति । चरमत्वं च दुःखत्वव्याप्या जातिः न, तच्छरीरप्रयोज्यातो' जातितः | साङ्कर्यात्, मैत्रीयचरम सुखचैत्राऽचरम दुःखाऽवर्तिन्योस्तयोश्चैत्रचरमदुःख एव समावेशात् ।
चैत्रशरीरप्रयोज्यजातिव्याप्यायाश्चैत्रचरमसुख-दुःखादिनिष्ठाया भिन्नाया एव चरमत्वजातेरुपगमे तु सुखत्वादिनैव साङ्कर्यात् ।।
अन्यत् समानाधिकरणदुःखप्रागभावाऽसमानकालीनत्वलक्षणं चरमत्वं नाऽर्थवत् = न तत्त्वज्ञानजन्यतावच्छेदकं, आर्थादेव समाजात्तदुपपत्तेः । १. हस्तादर्श 'तच्छरीरप्रयोज्यातः' इति नास्ति । २. मुद्रितप्रतौ ...प्रयोज्या, अतो जा...' इत्यशुद्धः पाठः । ३. मुद्रितप्रती 'चरमदुःख...' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'दुःखवर्ति...' इत्यशुद्धः पाठ इत्यवधेयम् । ५. मुद्रितप्रतौ 'अर्था...' इत्यशुद्धः पाठः । हस्तादर्शप्रत्यन्तरे 'अर्थो' इत्यशुद्धः पाठः ।
||४४६॥
२५/२९
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org