________________
क्ले
श
हा
hot Fb ho to
नो
पा
य
द्वा
त्रिं
शि
का
२५/३१
Jain Education International
कार्यवृत्तियावद्धर्माणां कार्यताऽवच्छेदकत्वे चैत्राऽवलोकित • मैत्रनिर्मितघटत्वादेरपि तथात्वप्रसङ्गात् । तथा च नियतितत्त्वाऽऽश्रयणाऽऽपत्तेरिति दिक् ।। २९ ।। अन्यमतदूषणेन निर्व्यूढं स्वमतमुपन्यस्यन्नाह*
सुखमुद्दिश्य तद्दुःखनिवृत्त्या नान्तरीयकम् । प्रक्षयः कर्मणामुक्तो युक्तो ज्ञान-क्रियाऽध्वना ॥३०॥
सुखमिति । तत् = तस्मात् दुःखनिवृत्त्या नान्तरीयकं = व्याप्तं सुखमुद्दिश्य कर्मणां = ज्ञानावरणादीनां प्रक्षयो ज्ञान-क्रियाऽध्वना युक्त उक्तः ||३०||
क्लेशाः पापानि कर्माणि बहुभेदानि नो मते ।
योगादेव क्षयस्तेषां न भोगादनवस्थितेः । । ३१ ।।
=
क्लेशा इति । नो अस्माकं मते पापानि = अशुभविपाकानि बहुभेदानि विचित्राणि कर्माणि = ज्ञानावरणीयादीनि क्लेशा उच्यन्ते । अतः कर्मक्षय एव क्लेशहानिरिति
=
भावः ।
ननु- “नाऽभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म
......• चिह्नद्वयमध्यवर्ती पृष्ठत्रि - तयव्यापी दीर्घं पाठो हस्तादर्शे नास्ति । १. हस्तादर्शे 'पादानि' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'योगदेव' इत्यशुद्धः पाठः । ३. हस्तादर्शे 'दभोगा' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ यावीनि' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
1188911
www.jainelibrary.org