SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ शुभाशुभम् ।।” (ब्रह्मवैवर्तपुराण-उत्तर ४/८१/५५) इति वचनाद् भोगादेव कर्मणां क्षये तस्याऽप्यपुरुषार्थत्वमनिवारितमेवेत्यत आह- योगादेव = ज्ञानक्रियासमुच्चयलक्षणात् क्षयः तेषां = नानाभवाऽर्जितानां प्रचितानां, न भोगात्, अनवस्थितेः = 'भोगजनितकर्मान्तरस्याऽपि भोगनाश्यत्वादनवस्थानात् । ____ ननु निरभिष्वङ्गभोगस्य न कर्मान्तरजनकत्वम् । प्रतिचानामपि च तेषां क्षयो योगजाऽदृष्टाधीनकायव्यूहबलादुपपत्स्यत इति चेन्न, प्रायश्चित्तादिनाऽपि कर्मनाशोपपत्तेः कर्मणां भोगेतरनाश्यत्वस्याऽपि व्यवस्थितौ योगेनाऽपि तन्नाशसम्भवे कायव्यूहादिकल्पने प्रमाणाऽभावात् । कर्मणां ज्ञानयोगनाश्यताया "ज्ञानाग्निः सर्वकर्माणि भस्मर ४/३७) इति भवदागमेनाऽपि सिद्धत्वात । ___नरादिशरीरसत्त्वे शूकरादिशरीराऽनुपपत्तेः कायव्यूहाऽनुपपत्तेः, मनोऽन्तरप्रवेशादिकल्पने गौरवाच्च । ये त्वाहुः पातञ्जलाः अग्नेः स्फुलिङ्गानामिव कायव्यूहदशायामेकस्मादेव चित्तात्प्रयोजकानानाचित्तानां परिणामोऽस्मितामात्रादिति । तदुक्तं- “निर्माणचित्तान्यस्मितामात्रात्" (यो.सू.४४) “प्रवृत्तिभेदे प्रयोजकं चित्तमेकमनेकेषामिति” (यो .सू.४-५) तेषामप्यनन्तकालप्रचितानां १. हस्तादर्श 'भोगजनितभोग...' इति त्रुटितोऽशुद्धश्च पाठः । २. मुद्रितप्रतौ .....दुत्पत्स्यत' इत्यशुद्धः पाठः । ३. हस्तादर्श 'भगवदा...' इति पाठः । ४. हस्तादर्श 'अगः' इत्यशुद्धः पाठः । का २५/३१ ॥४४८।। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy