________________
'F FE
कर्मणां नानाशरीरोपभोगनाश्यत्व कल्पनं मोह एव, तावददृष्टानां युगपद्वृत्तिलाभस्याऽप्य- || || नुपपत्तेरिति निरुपक्रमकर्मणामेव भोगैकनाश्यत्व माश्रयणीयमिति सर्वमवदातम् ।।३१।।
ततो निरुपमं स्थानमनन्तमुपतिष्ठते ।
भवप्रपञ्चरहितं परमानन्दमेदुरम् ।।३२।। तत इति । व्यक्त ॥३२॥
।। इति क्लेशहानोपायद्वात्रिंशिका ।।२५।।
।। अथ योगमाहात्म्यद्वात्रिंशिका ।।२६।। क्लेशहानोपायं विविच्य तथाभूतस्य योगस्य प्रेक्षावत्प्रवृत्त्यौपयिकं माहात्म्यमुपदर्शयन्नाह
शास्त्रस्योपनिषद्योगो योगो मोक्षस्य वर्तनी । अपायशमनो योगो योगः कल्याणकारणम् ॥१॥ संसारवृद्धिर्धनिनां पुत्रदारादिना यथा । शास्त्रेणाऽपि तथा योगं विना हन्त विपश्चिताम् ॥२॥
इहाऽपि लब्धयश्चित्राः परत्र च महोदयः । ....... चिह्नद्वयमध्यवर्ती दीर्घः पाठो हस्तादर्श नास्ति ।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org